________________
५३२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[किय्यते ] 'कैं शब्दे' (३६) कै। 'स्वराणां स्वराः' (४।२३८) कै० → का० । वर्त० ते । 'त्यादीनामाद्य०' (३१३९) ते० → इच्० । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । अनेन क्यस्य इय्य इति । 'लुक् (१।१०) आलुक्। 'आत्तेश्च' (४।३१९) इच् → ते० किय्यते ।
[गिय्यते] 'मैं शब्दे' (३७) गै। 'स्वराणां०' (४।२३८) गै० → गा० । वर्तते । 'त्यादीनामाद्य०' (३।१३९) ते० → इच्० । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । अनेन क्यस्य इय्य इति । 'लुक' (१९१०) आलुक्। 'आत्तेश्च' (४।३१९) इच्० → ते० गिय्यते ।
[रिय्यते ] ' शब्दे' (३८) रै । 'स्वराणां०' (४।२३८) रै० → रा० । वर्त० ते । 'त्यादीनामाद्य०' (३।१३९) ते० → इच्० । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । अनेन क्यस्य इय्य इति । 'लुक्' (१।१०) आलुक् । 'आत्तेश्च' (४।३१९) इच् → ते० रिय्यते ।।
[दिय्यते ] दा । वर्त० ते । 'त्यादीनामाद्य०' (३।१३९) ते० → इच्० । 'क्यः शिति' (३।४।७०) क्यप्र० → य०। अनेन क्यस्य इय्य इति । 'स्वराणां स्वराः' (४।२३८) दा० → दि० । 'लुक्' (१।१०) इलुक् । 'आत्तेश्च' (४।३१९) इच्छ → ते० दिय्यते ।
[रमिय्यते ] 'रमि क्रीडायाम्' (९८९) रम् । वर्त० ते । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । 'त्यादी०' (३।१३९) ते० → इच् । अनेन क्यस्य इय्य इति । 'आत्तेश्च' (४/३१९) इच्० → ते० रमिय्यते ।
[पठिय्यते ] 'पठ व्यक्तायां वाचि' (२१३) पठ् । वर्त० ते० । 'क्यः शिति' (३।४/७०) क्यप्र० → य । शेषं 'रमिय्यते' वत् । पठिय्यते ॥३१५।।
कृगो डीरः ॥ ८।४।३१६ ॥ पैशाच्यां कृग: परस्य क्यस्य स्थाने डीर इत्यादेशो भवति ॥ पुधुमतंसने सव्वस्स य्येव संमानं कीरते ॥ [कृगो डीरः] कृग् पञ्चमी ङसि । डीर प्रथमा सि ।
[पुधुमतंसने सव्वस्स य्येव संमानं कीरते] प्रथमदर्शने । 'प्रथमे प-थोर्वा' (११५५) प्र० → पु० - थ० → थु० । 'सर्वत्र ल-व०' (२।७९) लुक् - प्र० → पु० । 'थो धः' (४।२६७) थस्य धः । 'वक्रादावन्तः' (१।२६) अनुस्वारः द० → दं० । 'त-दोस्तः' (४.३०७) । दं० → तं० । 'सर्वत्र ल-व०' (२७९) लुक् पुधुमतंसने । सर्वस्यैव सम्मानं । सव्वस्स य्येव संमानं । 'डुकंग करणे' (८८८) कृ। वर्त० ते । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । अनेन क्यस्य डीर० → ईर० इति । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऋलोपः । 'लोकात्' (१।१।३) कीरते । 'त्यादीनामाद्य०' (३।१३९) ते० → इच् । 'आत्तेश्च' (४।३१९) इच्० → ते० कीरते । प्रथमदर्शने सर्वस्यैव सम्मानं करोतीत्यर्थः ॥३१६॥
यादृशादेर्दुस्तिः ॥ ८।४।३१७ ॥ पैशाच्यां यादृश इत्येवमादीनां दृ इत्यस्य स्थाने तिरादेशो भवति । यातिसो । तातिसो । केतिसो । एतिसो । भवातिसो । अातिसो । तुम्हातिसो । अम्हातिसो ॥ [यादृशादेर्दुस्तिः ] यादृशादि षष्ठी ङस् । दृ षष्ठी ङस् । ति प्रथमा सि ।
१. A. किय्यते उदाहरणम् । २. A. रिय्यते उदाहरणम् ।