________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५२५
०१॥
[हगे शक्कावदालतित्था स्त )णिवाशी धीवले] अहम् । अनेन हगे इति । शक्रावतारतीर्थनिवासिन् । प्रथमा सि । 'अन्त्य०' (१।११) नलुक् । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्य०' (१।११) स्लुक् । शेषं स्पष्टम् । शक्कावदालतित्था( स्त)णिवासी । धीवरः-धीवले ॥३०१॥
शेषं शौरसेनीवत् ॥ ८।४।३०२ ॥ मागध्यां यदुक्तं ततोऽन्यच्छौरसेनीवद् द्रष्टव्यम् ।। तत्र 'तो दोऽनादौ शौरसेन्यामयुक्तस्य' (४।२६०) 'पविशदु आयुत्ते शामि-पशादाय ॥ 'अध: क्वचित्' (४।२६१) अले ! किं एशे महन्दे कलयले । 'वादेस्तावति' (४।२६२) मालेध वा धलेध वा, अयं दाव शे आगमे ॥ 'आ आमन्त्र्ये सौ वेनो नः' (४॥२६३) भो कञ्चइआ ! | 'मो वा' (४।२६४) भो रायं ! ॥ 'भवद्-भगवतोः' (४।२६५) एदु भवं शमणे भयवं महावीले । भयवं कदन्ते ये अप्पणो फरकं उज्झिय पलस्स पकं पमाणीकलेशि ॥ 'नवा र्यो य्यः' (४।२६६) अय्य ! एशे खु कुमाले मलयकेदू ॥ 'थो धः' (४।२६७) अले कुम्भिला ! कधेहि ॥ 'इह-हचोर्हस्य' (४।२६८) ऊशलध अय्या ! ऊशलध ॥ 'भुवो भः' (४।२६९) भोदि ॥ 'पूर्वस्य पुरवः' (४।२७०) अपुरवे ॥ 'क्त्व इय-दूणौ' (४।२७१) 'किं खु शोभणे बम्हणे शि त्ति कलिय लञा पलिग्गहे दिण्णे ॥ '-गमो डडुअः' (४।२७२) कडुअ गडुअ ॥
'दिरिचेचोः' (४।२७३) अमच्च-ल कशं पेक्खिदं इदो य्येव आगश्चदि । १. उभौ- पविशदु आवुत्ते शामि-पशादश्श । [अभि० शा० षष्ठेऽङ्के]
प्रविशतु आवुत्त: स्वामिप्रसादाय ॥ २. पुरुषः - मालेध वा धलेध वा अयं दाव से आगमे । [अभि० शा० षष्ठेऽङ्के]
मारयत वा धरत वा अयं तावत् तस्य आगमः ।। ३. रक्षिणौ- अले कुम्भीलआ ! कहेहि कहिं तुए एशे मणिबन्धणुक्किण्णणामहेए लाअकीए अङ्गलीअए शमाशादिए ।
[अभि० शा० षष्ठेऽङ्के] अरे कुम्भीरक ! कथय कुत्र त्वयैतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गलीयकं समासादितम् । ४. चण्डा - ओसलध अज्जा ! ओसलध, अवेध माणहे ! अवेध । [मु० रा० चतुर्थे-सप्तमेऽङ्के]
अपसरत आर्याः ! अपसरत, अपेत मान्याः ! अपेत । ५. प्रथमः - किं सोहणे बह्मणेत्ति कलिअ रज्जा पडिग्गहे दिण्णे । [अभि० शा० षष्ठेउले]
कि शोभनो ब्राह्मण इति कलयित्वा राज्ञा प्रतिग्रहो दत्तः ।