________________
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[गलोई ] गुडूची । 'उतो मुकुलाऽऽदिष्वत्' (१।१०७) गु० → ग० । 'डो लः' (१।२०२) डस्य लः । अनेन लू० → लो० । 'क-ग-च-ज०' (१।१७७) च्लुक् । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् गलोई ।
[मोल्लं] मूल्य । अनेन मू० → मो० । 'अधो म-न-याम्' (२।७८) यलुक् । "अनादौ०' (२।८९) लस्य द्वित्वं - ल० → ल० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१९२३) अनुस्वारः मोल्लं ॥१२४॥
स्थूणा-तूणे वा ॥ ८।१।१२५ ॥ अनयोरूत ओत्वं वा भवति ॥ थोणा थूणा । तोणं तूणं ॥ [स्थूणातूणे वा] स्थूणा च तूणश्च = स्थूणातूणम्, तस्मिन् = स्थूणातूणे । सप्तमी ङि । वा प्रथमा सि ।
[थोणा थूणा] स्थूणा (२) । 'क-ग-ट-ड०' (२।७७) स्लुक् । अनेन वा ऊ० → ओ० - थू० → थो० । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् थोणा थूणा ।
[तोणं तूणं] तूण । अनेन वा तू० → तो० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः तोणं तूणं ॥१२५॥
ऋतोऽत् ॥ ८।१।१२६ ॥ आदेर्ऋकारस्य अत्वं भवति ।
घृतम् → घयं । तृणम् → तणं । कृतम् → कयं । वृषभः → वसहो । मृगः → मओ। घृष्टः → घट्ठो । दुहाईअमिति कृपादिपाठात् ॥
[ऋतोऽत् ] ऋत् षष्ठी ङस् । अत् प्रथमा सि ।
[घयं] घृत । अनेन घृ० → घ० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य०। प्रथमा सि । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनु०' (१।२३) अनुस्वारः घयं ।
[तणं तण । अनेन त० त० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० म० । 'मोऽनु०' (११२३) अनुस्वारः तणं ।
[कयं] कृत । अनेन कृ० → क० । 'क-ग-च-ज०' (१।१७७) त्लु क् । 'अवर्णो०' (१।१८०) अ० → य० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१९२३) अनुस्वारः कयं ।
[वसहो] वृषभ । अनेन वृ० → व० । 'श-षोः सः' (१।२६०) ष० → स० । 'ख-घ-थ-ध-भाम्' (१२१८७) भ० → ह० । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् वसहो ।
[मओ ] मृग । अनेन मृ० → म० । 'क-ग-च-ज०' (१२१७७) ग्लुक् । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् मओ।
[घट्ठो ] घृष्ट । अनेन घृ० → घ० । 'ष्टस्याऽनु०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२।८९) ठस्य द्वित्वम् । 'द्वितीयतुर्ययो०' (२।९०) पूर्वठस्य टः । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् घहो । १. G. 'सेवादौ वा' (२९९)।