________________
अष्टमाध्यायस्य प्रथमः पादः ॥
७९
[वाउलो] वातूल । अनेन तू० → तु० । 'क-ग-च-ज०' (१११७७) तलक । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० वाउलो ॥१२१॥
मधूके वा ॥ ८।१।१२२ ॥ मधूकशब्दे ऊत उद् वा भवति ॥ महुयं(अं) महूयं(अं) ॥ [मधूके वा] मधूक सप्तमी ङि । वा प्रथमा सि ।
[महुअं महूअं] मधूक (२) । अनेन वा धू० → धु० । 'ख-घ-थ-ध-भाम्' (१।१८७) धु० → हु० । 'क-ग-चज०' (१११७७) क्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य०? । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनुस्वारः' (१।२३) अनुस्वारः महुय( अं) महूय( अं) ॥१२२।।
इदेतौ नूपुरे वा ॥ ८।१।१२३ ॥ नूपुरशब्दे ऊत इत् एत् इत्येतौ वा भवतः ॥ निउरं नेउरं । पक्षे-नूउरं ॥ [इदेतौ नूपुरे वा] इच्च एच्च = इदेतौ । प्रथमा औ । नूपुर सप्तमी ङि । वा प्रथमा सि ।
[निउरं नेउरं नूरं] नूपुर (२) । अनेन प्रथमे ऊ० → इ०-नू० → नि० । द्वितीये ऊ० → ए० -नू० → ने० । 'क-ग-च-ज-त-द-प-य-वां प्रायो लुक्' (१।१७७) प्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः निउरं नेउरं । पक्षे-नूरं ॥१२३॥
ओत्कूष्माण्डी-तूणीर-कूर्पर-स्थूल-ताम्बूल-गुडूची-मूल्ये ॥ ८।१।१२४ ॥ एषु ऊत ओद् भवति ॥ कोहण्डी कोहली । तोणीरं । कोप्परं । थोरं । तम्बोलं । गलोई । मोल्लं ।।
[ओत्कूष्माण्डीतूणीरकूर्परस्थूलताम्बूलगुडूचीमूल्ये ] ओत् प्रथमा सि । कूष्माण्डी च तूणीरश्च कूपरं च स्थूलं च ताम्बूलं च गुडूची च मूल्यं च = कूष्माण्डीतूणीरकूपरस्थूलताम्बूलगुडूचीमूल्यम्, तस्मिन् = कूष्माण्डीतूणीरकूपरस्थूलताम्बूलगुडूचीमूल्ये । सप्तमी ङि ।
[कोहण्डी कोहली] कूष्माण्डी (२) । 'कूष्माण्ड्यां ष्मो लस्तु ण्डो वा' (२।७३) ष्मा० → ह० - ण्ड० → ल. वा । अनेन उभयत्र ऊ० → ओ० । प्रथमा सि । 'अन्त्य०' (११११) स्लुक् कोहण्डी कोहली ।
[तोणीरं] तूणीर । अनेन तू० → तो० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः तोणीरं ।
[कोप्परं ] कूर्पर । अनेन कू० → को० । 'सर्वत्र०' (२।७९) लुक् । “अनादौ०' (२१८९) पस्य द्वित्वं- प० → प्प० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः कोप्परं ।
[थोरं] स्थूल । 'क-ग-ट-ड०' (२।७७) स्लुक् । अनेन थू० → थो० । 'स्थूले लो र:' (१२२५५) ल० → र० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः थोरं ।
[तम्बोलं] ताम्बूल । 'हुस्वः संयोगे' (१८४) ता० → त० । अनेन बू० → बो० । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनुस्वारः' (१९२३) अनुस्वारः तम्बोल । १.G. "तैलादौ' (२।९८) ।