________________
अष्टमाध्यायस्य प्रथमः पादः ॥
[ऊत्सुभगमुसले ] ऊत् प्रथमा सि । सुभगश्च मुसलं च = सुभगमुसलम्, तस्मिन् = सुभगमुसले । सप्तमी ङि । [वा] वा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ।
[ सूहवो सुहओ] सुभग (२) । अनेन वा सु० → सू० । 'ख-घ-थ-ध-भाम्' (१।१८७) भ० → ह० । प्रथमे 'ऊत्वे दुर्भग-सुभगे वः' (१।१९२) ग० → व० । द्वितीये 'क-ग-च-ज०' (१।१७७) इति ग्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० सूहवो सुहओ। __ [ मूसलं मुसलं] मुसल (२) । अनेन वा उ० → ऊ० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः मूसलं मुसलं ॥११३॥
अनुत्साहोच्छन्ने त्स-च्छे ॥ ८।१।११४ ॥ उत्साहोच्छनवजिते शब्दे यौ त्स-च्छौ तयोः परयोरादेरुत ऊद् भवति ॥
त्स-ऊसुओ । ऊसवो । ऊसित्तो । ऊसरइ ॥ च्छ-उद्गताः शुका यस्मात् सः ऊसुओ । ऊससइ ॥ अनुत्साहोच्छन इति किम ? उच्छाहो । उच्छन्नो ॥ __ [अनुत्साहोच्छन्ने] उत्साहश्च उच्छन्नं च = उत्साहोच्छन्नम्, न उत्साहोच्छनम् = अनुत्साहोच्छन्नम्, तस्मिन् = अनुत्साहोच्छन्ने । सप्तमी ङि ।
[ऊसुओ] उत्सुक । अनेन उ० → ऊ० । 'क-ग-ट-ड०' (२७७) त्लुक् । 'क-ग-च-ज०' (१।१७७) क्लुक्। प्रथमा सि । 'अत: सेर्डोः' (३२) सि० → डो० → ओ० ऊसुओ ।
[ऊसवो] उत्सव । अनेन उ० → ऊ० । 'क-ग-ट-ड०' (२७७) लुक् । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० ऊसवो।
[ऊसित्तो] उत्सिक्त। अनेन उ० →ऊ० । 'क-ग-ट-ड०' (२२७७) इति तलक-कलक च । 'अनादौ०' (२१८९) तस्य द्वित्वं - त० →त्त० । प्रथमा सि । 'अतः से?ः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्यस्वरादेः' (२२१२११४) अलुक् ऊसित्तो।
[ऊसरइ ] उत्सरति । 'क-ग-ट-ड०' (२७७) त्लुक् । अनेन उ० → ऊ० । 'त्यादीनामाद्यत्रयस्याऽऽद्यस्येचेचौ' (३।१३९) ति० → इ० ऊसरइ ।
[ऊसुओ] उद्-शुक । उद्गताः शुका यस्मात् सः । 'अन्त्यव्य०' (१।११) द्लुक् । संस्कृते छस्य सिद्धत्वात् अनेन उ० →ऊ० । 'श-षोः सः' (१।२६०) शु० → सु० । 'क-ग-च-ज०' (१११७७) क्लुक् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० ऊसुओ।
[ऊससइ] उद्-श्वस्-ति । 'अन्त्यव्य०' (१।११) द्लुक् । 'सर्वत्र०' (२२७९) व्लुक् । अनेन उ० → ऊ० । 'शषोः सः' (१।२६०) श० → स० । 'व्यञ्जनाद०' (४।२३९) अत् । 'त्यादीनामाद्यत्र०' (३।१३९) ति० → इ० ऊससइ ।
[उच्छाहो] उत्साह । 'हुस्वात् थ्य-श्च-त्स-प्सामनिश्चले' (२२२१) त्स० → छ । 'अनादौ०' (२।८९) छस्य द्वित्वम्। 'द्वितीय-तुर्य०' (२।९०) पूर्वछस्य चः । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् उच्छाहो ।