________________
७४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[वोपरौ] वा प्रथमा सि । उपरि सप्तमी ङि ।
[अवरि उवरिं] उपरि । अनेन वा उ० → अ० । 'पो वः' (१।२३१) प० → व० । 'वक्रादावन्तः' (१।२६) अनुस्वारः अवरि उवरि ॥१०८।।
गुरौ के वा ॥ ८।१।१०९ ॥ गुरौ स्वार्थे के सति आदेरुतोऽद् वा भवति ॥ गरुओ गुरुओ ॥ क इति किम् ? गुरू ॥ [गुरौ के वा] गुरु सप्तमी ङि । क सप्तमी ङि । वा प्रथमा सि ।
[गरुओ गुरुओ] गुरुक । गुरुरेव = गुरुकः । स्वार्थे कप्र० । अनेन वा गु० → ग० । 'क-ग-च-ज०' (११७७) क्लुक् । प्रथमा सि । अतः से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्यः' (२।१।११४) अलुक् गरुओ गुरुओ। [गुरू ] गुरु । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्यः' (१।११) स्लुक् गुरू ॥१०९॥
इर्भुकुटौ ॥ ८।१।११० ॥ भ्रकुटावादेरुत इर्भवति ॥ भिउडी ॥ [इर्धकुटौ] इ प्रथमा सि । भृकुटी(टि) सप्तमी ङि ।
[भिउडी] 'भृकुटी(टि) । 'सर्वत्र०' (२१७९) लुक् । अनेन उ० → इ० । 'क-ग-च-ज०' (१।१७७) क्लु क् । 'टो डः' (१।१९५) ट० → ड० । प्रथमा सि । ['अक्लीबे सौ' (३।१९) दीर्घः - डि० → डी०] । 'अन्त्य०' (१।११) स्लुक् भिउडी ॥११०॥
पुरुषे रोः ॥ ८।१।१११ ॥ पुरुषशब्दे रोरुत इत्वं भवति ॥ पुरिसो । पउरिसं ॥ [पुरुषे रोः ] पुरुष सप्तमी ङि । रु षष्ठी ङस् ।
[पुरिसो] पुरुष । अनेन रु० → रि० । 'श-षोः सः' (१।२६०) ष० → स० । प्रथमा सि । 'अतः से?ः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् पुरिसो।।
[पउरिसं ] पौरुष । 'अउ: पौराऽऽदौ च' (१।१६२) पौ० → पउ० । अनेन रु० → रि० । 'श-षोः सः' (१।२६०) ष० → स० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः परिसं ॥१११।।
ई: क्षुते ॥ ८।१।११२ ॥ क्षुतशब्दे आदेरुत ईत्वं भवति ॥ छीअं॥ [ईः क्षुते ] ई प्रथमा सि । क्षुत सप्तमी ङि।
[छीअं] क्षुत । 'छोऽक्ष्यादौ' (२।१७) क्षु० → छु० । अनेन छु० → छी० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (११२३) अनुस्वारः छीअं ॥११२॥
ऊत्सुभग-मुसले वा ॥ ८१११३ ॥ .. अनयोरादेरुत ऊद् वा भवति ॥ सूहवो सुहओ ॥ मूसलं मुसलं ॥
१. पा० म० - भृकुटि → भिउडि - भिउडी । २. D.Gई क्षुते ।