________________
अष्टमाध्यायस्य प्रथमः पादः ॥
७३
मउलं । मउलो । मउरं । मउडं । अगरुं । गरुई । जहुट्ठिलो । जहिट्ठिलो । सोअमल्लं । गलोई ॥ मुकुल । मुकुर । मुकुट । अगुरु । गुर्वी । युधिष्ठिर । सौकुमार्य । गुडूची इति मुकुलाऽऽदयः ॥ क्वचिदाकारोऽपि - विद्रुतः → विद्दाओ ॥
[उतो मुकुलाऽऽदिष्वत् ] उत् षष्ठी ङस् । मुकुल आदौ येषां ते = मुकुलाऽऽदयस्तेषु = मुकुलादिषु । सप्तमी सुप् । अत् प्रथमा सि ।
[मलं मउलो] मुकुल उभयलिङ्गः । अनेन मु० → म० । 'क-ग-च-ज०' (१।१७७) इति क्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनु०' (१९२३) अनुस्वारः मउलं । पुल्लिङ्गे - 'अतः सेोः' (३२) सि० → डो० → ओ० मउलो ।
[मउरं ] मुकुर । अनेन मु० → म० । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः मउरं ।
[मउडं] मुकुट । अनेन मु० → म० । 'क-ग-च-ज०' (१२१७७) इति क्लु क् । 'टो डः' (१२१९५) ट० → ड० । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः मउडं ।
[अगरुं] अगुरु । अनेन गु० → ग० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः अगरुं ।
[गरुई ] गुर्वी । अनेन गु० → ग० । 'तन्वीतुल्येषु' (२।११३) वात् प्राग् उकारः । 'क-ग-च-ज०' (१११७७) इति व्लुक् । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् गरुई।
[जहुट्ठिलो जहिट्ठिलो] युधिष्ठिर । 'आदेर्यो जः' (११२४५) यु० → जु० । अनेन जु० → ज० । 'युधिष्ठिरे वा' (१२९६) वा धि० → धु० । 'ख-घ-थ-ध-भाम्' (१।१८७) धु० → हु० -धि० → हि० । 'ष्टस्याऽनु०' (२।३४) ष्टस्य ठः (?) । 'क-ग-ट-ड०' (२७७) ष्लुक् । 'अनादौ०' (२।८९) ठस्य द्वित्वम् । “द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः। 'हरिद्रादौ लः' (१२२५४) र० → ल० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० जहिलो जहिट्ठिलो।
[सोअमलं] सौकुमार्य । 'औत ओत्' (१।१५९) सौ० → सो० । अनेन कु० → क० । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'हुस्वः संयोगे' (१९८४) मा० → म० । 'पर्यस्त-पर्याण-सौकुमार्ये ल:' (२।६८) र्यस्य लः । प्रथमा सि । 'क्लीबे०' (३६२५) सि० →म् । 'मोऽनु०' (१९२३) अनुस्वारः सोअमलं ।
[गलोई ] गुडूची । 'ओत्कूष्माण्डी-तूणीर-कूर्पर-स्थूल-ताम्बूल-गुडूची-मूल्ये' (१।१२४) डू० → डो० । 'डो लः' (१२२०२) डो० → लो० । अनेन गु० → ग० । 'क-ग-च-ज०' (१।१७७) च्लुक् । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् गलोई।
[विदाओ] विद्रुतः । 'सर्वत्र०' (२१७९) लुक् । क्वचिदाकारोऽपि दु० → दा० । 'अनादौ०' (२२८९) दस्य द्वित्वंदा० → दा० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (१।१।११४) अलुक् विदाओ ॥१०७॥
वोपरौ ॥ ८१।१०८ ॥ उपरावुतोऽद् वा भवति ॥ अवरिं उवरि ॥ .