________________
६४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[सढिलं सिढिलं पसढिलं पसिढिलं ] शिथिल (२) - प्रशिथिल (२) । अनेन वा इ० → अ० - शि० → श० । 'श-षोः सः' (१।२६०) श० → स० -शि० → सि० । 'मेथी-शिथिर-शिथिल-प्रथमे थस्य ढः' (१२२१५) थस्य ढः। 'सर्वत्र०' (२७९) उभयत्र प्रस्य लुक् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० →म् । 'मोऽनुस्वारः' (१।२३) अनुस्वारः सढिलं सिढिलं पसढिलं पसिढिलं । _[अंगुअं इंगुअं] इगुद (२) । अनेन वा इ० → अ० । 'क-ग-च-ज०' (१।१७७) इति द्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः अंगुअं इंगुअं । ॥८९॥
तित्तिरौ रः ॥८॥१९० ॥ तित्तिरिशब्दे रस्येतोऽद् भवति ॥ तित्तिरो ॥ [तित्तिरौ रः] तित्तिरि सप्तमी ङि । र षष्ठी ङस् ।
[तित्तिरो] तित्तिरि । प्रथमा सि । अनेन रि० → र० । 'अतः सेोः' (३।२) सि० → डो० → ओ० तित्तिरो॥९०॥
इतौ तो वाक्याऽऽदौ ॥ ८।१।९१ ॥ वाक्याऽऽदिभूते इतिशब्दे यस्तस्तत्सम्बन्धिन इकारस्य अकारो भवति । इअ जंपिआवसाणे ॥ वाक्याऽऽदाविति किम् ? पिओ त्ति । पुरिसो त्ति ॥ [इतौ तो वाक्याऽऽदौ] इति सप्तमी ङि । त् षष्ठी ङस् । वाक्याऽऽदि सप्तमी ङि ।
[इअ जंपिआवसाणे] इति । प्रथमा सि । अनेन ति० → त० । 'क-ग-च-ज०' (१११७७) इति त्लुक् । 'अव्ययस्य' (३।२७) सिलुप् इअ । 'कथण् वाक्यप्रबन्धे' (१८८०) कथ । 'कथेर्वज्जर०' (४।२) कथ० → जम्प० । 'व्यञ्जना०' (४।२३९) अत् । क्तप्र० → त । 'क्ते' (३।१५६) इ । 'क-ग०' (१।१७७) त्लुक् जम्पिअ ।
[पिओ त्ति ] प्रिय इति । 'सर्वत्र ल०' (२७९) लुक् । 'क-ग-च-ज०' (१।१७७) यलुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । इतेः स्वरात् तश्च द्विः' (१।४२) इतेः इलोपस्तस्य द्वित्वं च -ति० → त्ति० । पिओ त्ति ।
[पुरिसो त्ति ] पुरुष इति । 'पुरुषे रोः' (१।१११) रु० → रि० । 'श-षोः सः' (१।२६०) ष० → स० । 'इतेः स्वरात् तश्च द्विः' (१२४२) इतेः इलोपस्तस्य द्वित्वं च-ति० → त्तिः । प्रथमा सि । 'अत: से?ः' (३।२) सि० → डो० → ओ० पुरिसो त्ति ॥९१॥
ईर्जिह्वा-सिंह-त्रिंशद्विशतौ त्या ॥ ८।१।९२ ॥ जिह्वादिषु इकारस्य ति-शब्देन सह ईर्भवति ॥ जीहा । सीहो । तीसा । वीसा ॥ बहुलाधिकारात् क्वचिन्न भवति - सिंहदत्तो । सिंहराओ ॥
[ईर्जिह्वासिंहत्रिंशतिशती त्या ] ई प्रथमा सि । जिह्वा च सिंहश्च त्रिंशच्च विंशतिश्च = जिह्वासिंहत्रिंशद्विंशति, तस्मिन् = जिह्वासिंहत्रिंशद्विशतौ । सप्तमी ङि । ति तृतीया टा ।
१. G. ईज्जिह्वा ।