________________
अष्टमाध्यायस्य प्रथमः पादः ॥
[जीहा ] जिह्वा । 'सर्वत्र०' (२१७९) इति व्लोपः । अनेन जि० → जी० । प्रथमा सि । 'अन्त्य०' (११११) स्लुक् जीहा ।
[सीहो] सिंह । 'मांसाऽऽदेर्वा' (१।२९) अनुस्वारलोपः । अनेन सि० → सी० । प्रथमा सि । 'अतः सेझैः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् सीहो ।
[तीसा] त्रिंशत् । 'विंशत्यादेर्लुक्' (१२८) अनुस्वारलुक् । 'सर्वत्र ल०' (२७९) इति लुक् । अनेन ति० → ती० । 'श-षोः सः' (१।२६०) श० → स० । “अन्त्यव्य०' (१२११) त्लुक् । प्रथमा सि । 'आत्' (२।४।१८) आप्प्र० → आ । 'अन्त्यव्य०' (११११) स्लुक् तीसा ।
[वीसा] विंशति । 'विंशत्यादेर्लुक् (१।२८) अनुस्वारलोपः । अनेन त्या सह इ० → ई० -वि० → वी० । 'शषोः सः' (१।२६०) श० → स० । "स्त्रियामादविद्युतः' (१।१५) स० → सा० ।('आत्' (२।४।१८) आप्प्र० → आ) । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् वीसा ।।
[सिंहदत्तो] सिंहदत्त । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० सिंहदत्तो । __ [सिंहराओ ] सिंहराज । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) ज्लुक् । 'अतः सेझैः' (३।२) सि० → डो० → ओ० सिंहराओ ॥१२॥
लुंकि निरः ॥ ८।१।९३ ॥ निर उपसर्गस्य रेफलोपे सति इत ईकारो भवति ।।
नीसरह । नीसासो ॥ लुंकीति किम् ? निण्णओ। निस्सहाई अंगाई ॥ [लुंकि निरः] रो लुक् = लुक्, तस्मिन् = लुकि । सप्तमी ङि । निर् षष्ठी ङस् ।
[नीसरइ ] निर्-सरति । "सर्वत्र०' (२७९) लुक् । अनेन नि० → नी० । 'त्यादीनामाद्यत्रयस्या०' (३।१३९) ति० → इ० नीसरइ ।
[नीसासो] निर्-श्वास । "सर्वत्र०' (२७९) र-व्लुक् । अनेन नि० → नी० । 'श-षोः सः' (१।२६०) शा० → सा० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० नीसासो ।
[निन्नओ] निर्-नय । 'सर्वत्र०' (२७९) लुक् । 'क-ग-च-ज०' (१।१७७) इति य्लुक् । 'अनादौ०' (२१८९) नस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३।२) सि. → डो० → ओ० निन्नओ।
[निस्सहाई अंगाइं] 'निर्-सह । प्रथमा जस् । 'जस्-शस इ-इं-णय:०' (३।२६) जस्स्थाने इं -दीर्घश्च । 'श-षसे श-ष-सं वा' (१।३।६) २० → स० निस्सहाई ॥९३।।
द्विन्योरुत ॥ ८१४९४ ॥
द्विशब्दे नावुपसर्गे च इत उद् भवति ॥ .
१. D. L. 'स्त्रियामादविद्युतः' (१।१५) अन्त्यतकारस्य आकारे । २. G. विद्युद्वर्जनादसंख्याशब्दस्य प्रायो विधिरिति 'स्त्रियामाद०' (१।१५) इति नाऽऽत्वं, किन्तु 'आत्' (२।४।१८) इत्याप् । ३. J. 'निर्दुरोर्वा' (१।१३) लुक् । ४. J. 'निर्दुरोर्वा' (१।१३) लुक् । ५. H. K. M. निण्णओ - निर्-णय । ६. J. निर्-सह । 'सर्वत्र ल०' (२९७९) लुक् । 'अनादौ०' (२२८९) सस्य द्वित्वम् ।