________________
अष्टमाध्यायस्य प्रथमः पादः ॥
आर्यायां र्यः श्वश्र्वाम् ॥ ८॥१७७ ॥
आर्याशब्दे श्वश्वां वाच्यायां र्यस्याऽऽत ऊर्भवति ॥ अज्जू ॥ श्वश्र्वामिति किम् ? अज्जा ॥ [आर्यायां यः श्वश्र्वाम् ] आर्या सप्तमी ङि । य॒ षष्ठी ङस् । श्वश्रू सप्तमी ङि।
[अज्जू] आर्या । 'द्य-य्य-या जः' (२०२४) ० → जा० । 'अनादौ०' (२१८९) जस्य द्वित्वं-जा० → ज्जा० । . 'हस्वः संयोगे' (१।८४) आ० → अ० । अनेन ज्जा० → ज्जू० । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् अज्जू । [अज्जा] आ० → ऊ० मुक्त्वा शेषं तथैव - अज्जा ॥७७।।
एद् ग्राह्ये ॥ ८॥१७८ ॥ ग्राह्यशब्दे आदेरात एद् भवति ॥ गेज्झं ॥ [एद् ग्राह्ये] एत् प्रथमा सि । ग्राह्य सप्तमी ङि ।
[गेझं] ग्राह्य । 'सर्वत्र०' (२१७९) लुक् । 'साध्वस-ध्य-ह्यां झः' (२।२६) ह्यस्य झः । "अनादौ०' (२१८९) झस्य द्वित्वम् । “द्वितीय-तुर्ययो०' (२।९०) पूर्वझस्य जः । अनेन गा० → गे० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनुस्वारः' (१९२३) अनुस्वारः गेज्झं ॥७८।।
द्वारे वा ॥ ८॥१७९ ॥ द्वारशब्दे आत एद् वा भवति ॥
देरं । पक्षे-दुआरं । वारं । दारं ॥ कथं नेरइओ नारइओ? । नैरयिक-नारकिकशब्दयोर्भविष्यति । आर्षे अन्यत्राऽपि -पच्छेकम्मं । असहेज्ज 'देवासुरा ॥
[द्वारे वा] द्वार सप्तमी ङि । वा प्रथमा सि ।
[देरं] द्वार । 'सर्वत्र ल०' (२७९) व्लुक् । अनेन वा आ० → ए० - दा० → दे० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः देरं । पक्षे
[दुआरं] द्वार । 'पद्म-छद्म-मूर्ख-द्वारे वा' (२१११२) इति व् प्राग् उकारः - दुवार इति स्थिते 'क-ग-च-ज-तद-प-य-वां प्रायो लुक् (१।१७७) व्लोपः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१९२३) अनुस्वारः दुआरं इति सिद्धम् । _ [वारं] द्वार । 'क-ग-ट-ड-त-द-प-श-ष०' (२७७) इति द्लुक् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्। 'मोऽनुस्वारः' (१९२३) अनुस्वारः वारं इति जातम् ।
[दारं] द्वार । 'सर्वत्र ल-व०' (२७९) वलुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः दारं इति सिद्धम् ।
[नेरइओ नारइओ] निरये भवः = नैरयिकः । नरके भवः = नारकिकः । 'अध्यात्मादिभ्य इकण' (६।३।७८) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः - नि० → नै० - न० → ना० । नैरयिक - नारकिक मण्डनिका। १. G तैलादौ प्रसङ्गे । २. M. नारयिक । ३. J. L. M. देवासुरी ।