________________
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[आचार्ये चोऽच्च ] आचार्य सप्तमी ङि । च षष्ठी ङस् । अत् च प्रथमा सि ।।
[आइरिओ आयरिओ] आचार्य (२) । अनेन चस्य आत इत्वं अत्वं च । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । 'स्याद्-भव्य-चैत्य-चौर्यसमेषु यात्' (२।१०७) यात् प्राग् इकारः । 'क-ग-च-ज०' (१।१७७) च-ययोर्लुक् । प्रथमा सि । 'अतः सेोंः' (३२) सि० → डो० → ओ० आइरिओ आयरिओ ॥७३।।
ईः स्त्यान-खल्वाटे ॥ ८॥१७४ ॥ स्त्यान-खल्वाटयोरादेरात ईर्भवति ॥ ठीणं । थीणं । थिण्णं । खल्लीडो ॥ संखायं इति तु 'समः स्त्यः खाः' (४।१५) इति खाऽऽदेशे सिद्धम् ॥
[ई: स्त्यानखल्वाटे] ई प्रथमा सि । स्त्यानश्च खल्वाटश्च = स्त्यानखल्वाटम्, तस्मिन् = स्त्यानखल्वाटे । सप्तमी ङि।
[ठीणं थीणं थिण्णं] स्त्यान । 'अधो म-न-याम्' (२।७८) यलुक् । 'स्त्यान-चतुर्था-ऽर्थे वा' (२२३३) स्ता० → ठा० । अनेन आ० → ई० -ठा० → ठी० । 'नो णः' (१२२२८) न० → ण ठीणं । द्वितीये 'स्तस्य थोऽसमस्त-स्तम्बे' (२०४५) स्ता० → था० । अनेन आ० → ई० - था० → थी० । 'नो णः' (१।२२८) न० → ण० थीणं । तृतीये 'सेवादौ वा' (२।९९) णस्य द्वित्वम् । अनेन आ० → ई० । 'हुस्वः संयोगे' (१९८४) थी० → थि० थिण्णं ।।
[खल्लीडो] खल्वाट । 'सर्वत्र०' (२२७९) व्लुक् । 'अनादौ०' (२१८९) लस्य द्वित्वं-ला० → ल्ला० । अनेन आ० → ई० -ल्ला० → ल्ली० । 'टो डः' (१।१९५) ट० → ड० । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० खल्लीडो। .
[संखायं] सम्-ष्ट्य(३९) स्त्य सङ्घाते च'(४०) स्त्यै । 'आत् सन्ध्यक्षरस्य' (४।२।१) स्त्या । संस्त्यायते स्म इति संस्त्यानं = संस्त्या । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त० । 'समः स्त्यः खाः' (४।१५) इति स्त्या० → खा० । 'कग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो०' (१।१८०) अ० → य० संखायमिति सिद्धम् ॥७४॥
उ: सास्ना-स्तावके ॥ ८॥१७५ ॥ अनयोरादेरात उत्वं भवति ॥ सुण्हा । थुवओ ॥ [उ सास्नास्तावके ] उ प्रथमा सि । सास्ना च स्तावकश्च = सास्नास्तावकम्, तस्मिन् = सास्नास्तावके । सप्तमी ङि।
[सुण्हा ] सास्ना । प्रथमा सि । 'सूक्ष्म-श्न-ष्ण-स्न-ह्न-ह्ण-क्ष्णां ण्हः' (२७५) इति स्ना० → हा० । अनेन सा० → सु० । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् सुण्हा ।।
[थुवओ] स्तावक । 'स्तस्य थोऽसमस्त-स्तम्बे' (२।४५) स्ता० → था० । अनेन आ० → उ० -था० → थु० । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० थुवओ ॥७५।।
ऊद्वाऽऽसारे ॥ ८१७६ ॥ आसारे आदेरात ऊद् वा भवति ॥ ऊसारो आसारो ॥ [ऊद्वाऽऽसारे ] ऊत् प्रथमा सि । वा प्रथमा सि । आसार सप्तमी ङि ।
[ऊसारो आसारो] आसार । अनेन वा आ० → ऊ० । प्रथमा सि । 'अतः से?ः' (३।२) सि० → डो० → ओ० ऊसारो आसारो ॥७६॥