________________
अष्टमाध्यायस्य प्रथमः पादः ॥
[संसिद्धिओ] संसिद्धिः प्रयोजनमस्य । 'प्रयोजनम्' (६।४।११७) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः सं० → सां० । अनेन सां० → सं० । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० संसिद्धिओ ।
[संजत्तिओ] सङ्गतानां यात्रा = संयात्रा । संयात्रा प्रयोजनमस्य । 'प्रयोजनम्' (६।४।११७) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि:- सं० → सां० । अनेन सां० → सं० । 'हस्वः संयोगे' (१९८४) या० → य० । 'आदेर्यो जः' (१।२४५) य० → ज० । 'सर्वत्र०' (२२७९) लुक् । 'अनादौ०' (२२८९) द्वित्वं- ति० → त्ति० । 'क-गच-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अत: से?ः' (३।२) सि० → डो० → ओ० संजत्तिओ ।
[मासं] मांस । 'मांसाऽऽदेर्वा' (१।२९) अनुस्वारलुक् । अनेन मा० → म० न स्यात् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः मासं ।
[पासू] पांशु । 'मांसाऽऽदेर्वा' (१।२९) अनुस्वारलुक् । अनेन पा० → प० न स्यात् । 'श-षोः सः' (१।२६०) शु० → सु० । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः - सु० → सू० । 'अन्त्य०' (१।११) स्लुक् पासू ॥७०॥
श्यामाके मः ॥८१७१ ॥ श्यामाके मस्य आतोऽद् भवति ॥ सामओ ॥ [श्यामाके मः] श्यामाक सप्तमी ङि । म् षष्ठी ङस् ।
[सामओ] श्यामाक । प्रथमा सि । 'अधो म-न-याम्' (२१७८) य्लोपः । 'श-षोः सः' (१।२६०) शा० → सा० । 'क-ग-च-ज०' (१।१७७) इति क्लुक । अनेन मा० → म० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० सामओ ॥७१।।
इ: सदाऽऽदौ वा ॥ ८।१७२ ॥ सदाऽऽदिषु शब्देषु आत इत्वं वा भवति ॥ सइ सया । निसिअरो निसायरो । कुप्पिसो कुप्पासो ॥
[इः सदाऽऽदौ वा] इ प्रथमा सि । सदा आदिर्यस्याऽसौ सदाऽऽदिस्तस्मिन् = सदाऽऽदौ । सप्तमी ङि । वा प्रथमा सि ।
[सइ सया] सदा । अनेन दा० → दि० । 'क-ग-च-ज०' (१२१७७) इति लुक् । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । सइ । द्वितीये 'अवर्णो यश्रुतिः' (१२१८०) अवर्णस्य आ० → या० सया ।
[निसिअरो 'निसायरो] निशाकर । अनेन वा आ० → इ० -शा० → शि० । 'श-षोः सः' (१२२६०) शि० - सि० । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० निसिअरो । द्वितीये 'अवर्णो०' (१।१८०) अस्य य: निसायरो ।
[कुप्पिसो कुप्पासो ] कूर्पास । 'हुस्व: संयोगे' (१८४) कू० → कु० । अनेन आ० → इ० -प्पा० → प्पि० । 'सर्वत्र०' (२७९) लुक् । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० कुप्पिसो कुप्पासो ॥७२॥
आचार्ये चोऽच्च ॥ ८॥१७३ ॥ आचार्यशब्दे चस्य आत इत्वं अत्वं च भवति ॥ आइरिओ आयरिओ ॥
१. L. निसाअरो।