________________
५४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
महाराष्ट्रे ॥ ८॥१६९ ॥ महाराष्ट्रशब्दे आदेराकारस्य अद् भवति ॥ मरहटुं मरहट्ठो । [महाराष्ट्र] महाराष्ट्र सप्तमी ङि ।
[मरहट्टं मरहट्ठो] महाराष्ट्र । 'महाराष्ट्र ह-रोः' (२।११९) इति ह-रोर्व्यत्ययः । अनेन रा० → र० । 'हुस्वः संयोगे' (१९८४) हा० → ह० । 'सर्वत्र ल०' (२७९) लोपः । 'ष्टस्याऽनु०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२१८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । प्रथमा सि । पुं-नपुंसकत्वात् 'क्लीबे०' (३।२५) सि० → म्० । 'अतः से?ः' (३२) सि० → डो० → ओ० मरहट्ठ मरहो ॥६९।।
मांसादिष्वनुस्वारे ॥ ८१७० ॥ मांसप्रकारेषु अनुस्वारे सति आदेरातः अद् भवति ।।
मंसं । पंसू । पंसणो । कसं । कंसिओ। वंसिओ। पंडवो । संसिद्धिओ। संजत्तिओ ॥ अनुस्वार इति किम् ? मासं। पासू॥
मांस । पांशु । पांसन । कांस्य । कांसिक । वांशिक । पाण्डव । सांसिद्धिक । सांयात्रिक इत्यादि ॥ [मांसादिष्वनुस्वारे ] मांस आदिर्येषां ते = मांसादयस्तेषु = मांसादिषु । सप्तमी सुप् । अनुस्वार सप्तमी ङि ।
[मंसं ] मांस । अनेन मां० → मं० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः मंसं ।
[पंसू ] पांशु । अनेन पां० → पं० । 'श-षोः सः' (१।२६०) शु० →सु० । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः - सु० → सू० । 'अन्त्य०' (१।११) स्लुक् पंसू ।
[पंसणो] पांशुना अवकिरति । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) उलुक् । पांशयतीति । 'नन्द्यादि०' (५।१।५२) अनप्र० । 'णेरनिटि' (४।३।८३) णिलुक् । अनेन पां० → पं० । 'श-षोः सः' (१।२६०) श० → स० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० पंसणो ।
[कंसं] कांस्य । अनेन कां० → कं० । 'अधो म-न-याम्' (२७८) यलुक् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः कंसं ।
[कंसिओ] कंसं पण्यमस्य । 'तदस्य पण्यम्' (६।४।५४) इकण्प्र० → इक० । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । अनेन कां० → कं० । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ०
कंसिओ।
[वंसिओ] वंशवादनं शिल्पमस्य । 'शिल्पम्' (६।४।५७) इकण्प्र० → इक० । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । अनेन वां० → वं० । 'श-षोः सः' (१।२६०) शि० → सि० । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० वंसिओ ।
[पंडवो] पाण्डोरपत्यम् । 'शिवादेरण' (६।१।६०) अण्प्र० → अ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । अनेन पां० - पं० । प्रथमा सि । 'अतः सेोः' (३।२) सि० → डो० → ओ० पंडवो ।