________________
अष्टमाध्यायस्य प्रथमः पादः ॥
[दवग्गी दावग्गी] दवाग्नि-दावाग्नि । 'हस्वः संयोगे' (१८४) वा० → व० । 'अधो म-न-याम्' (२।७८) नलुक। 'अनादौ०' (२।८९) गस्य द्वित्वम् । प्रथमा सि । 'अक्लीबे सौ' (३.१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् दवग्गी दावग्गी।
[चडू] चटु । प्रथमा सि । 'टो डः' (१।१९५) टु० → डु० । 'अक्लीबे सौ' (३।१९) दीर्घः चडू।
[चडू चाडू ] चाटु (२) । अनेन वा आ० → अ० । 'टो डः' (१।१९५) टु० → डु० । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः चडू चाडू ॥६७॥
घवृद्धेर्वा ॥ ८।१।६८ ॥ घनिमित्तो यो वृद्धिरूप आकारस्तस्याऽऽदिभूतस्य अद् वा भवति ॥ पवहो पवाहो । पहरो पहारो । पयरो पयारो प्रकारः प्रचारो वा । पत्थवो पत्थावो ॥ क्वचिन्न भवति - रागः →
राओ।
[घवृद्धेर्वा ] घञ् प्रथमा सि । वृद्धि षष्ठी ङस् । वा प्रथमा सि । घनिमित्ता वृद्धिः = घवृद्धिस्तस्याः ।
[पवहो पवाहो] प्रपूर्वकः 'वहीं प्रापणे' (९९६) वह् । प्रवहणं = प्रवाहः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ० । “णिति' (४।३।५०) उपान्त्यवृद्धिः व० → वा० । 'सर्वत्र०' (२२७९) लुक् । अनेन वा वा० → व० । प्रथमा सि। 'अतः से?:' (३२) सि० → डो० → ओ० पवहो पवाहो ।
[पहरो पहारो] प्रपूर्वकः 'हंग् हरणे' (८८५) ह । प्रहरणं = प्रहारः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ० । 'नामिनोऽकलि-हलेः' (४३५१) वृद्धिः ह० → हार० । अनेन वा हा० → ह० । 'सर्वत्र०' (२७९) लुक् । प्रथमा सि । 'अत: सेर्डो' (३२) सि० → डो० → ओ० पहरो पहारो।
[पयरो पयारो] प्रपूर्वकः 'डुकंग करणे (८८८) कृ । प्रपूर्वकः 'चर भक्षणे च' (४१०) चर् । प्रकरणं = प्रकारः । प्रचरणं = प्रचारः । 'भावा-ऽकोंः ' (५।३।१८) घप्र० → अ० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः - कृ० → कार० । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धि:-च० → चार्० । अनेन वा का० → क० - चा० → च० । 'कग-च-ज०' (१।१७७) इति कस्य चस्य च लुक् । 'अवर्णो०' (१।१८०) अ० → य० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० ओ० पयरो पयारो।
[पत्थवो पत्थावो] प्रपूर्वकः ‘ष्टुंग्क् स्तुतौ' (११२४) ष्टु । 'ष: सोऽष्ट्यैः ' (२।३।९८) स्तु । 'निमित्ताभावे०' . (न्या० वक्ष० शसूत्र २९) स्तु । प्रस्तवनं = प्रस्तावः । 'प्रात् स्रु-द्रु-स्तोः' (५।३।६७) घञ्प्र० → अ० । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः । 'सर्वत्र०' (२७९) लुक् । 'स्तस्य थोऽसमस्त-स्तम्बे' (२।४५) स्तस्य थ० । 'अनादौ०' (२।८९) थस्य द्वित्वम् । 'द्वितीयः' (२।९०) पूर्वथस्य तः । अनेन वा आ० → अ० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० पत्थवो पत्थावो ।
[राओ] 'रञ्जी रागे' (८९६) रञ्ज् । रजनं = रागः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ० । 'घजि भावकरणे' (४।२।५२) नलुक् । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धि: र० → रा० । 'तेऽनिटश्च०' (४।१।१११) ज० → ग० । 'लोकात्' (१।१३) राग इति जातं ततः 'क-ग-च-ज०' (१२१७७) इति ग्लुक् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० राओ ॥६८॥