________________
अष्टमाध्यायस्य प्रथमः पादः ॥
[व्व] 'मिव-पिव-विव-व्व-व-विअ इवार्थे वा' (२।१८२) व्व० ।
[ वेल्लंतो] 'रमि क्रीडायाम्' (९८९) रम् । रमते । शतृप्र० । 'रमेः संखुड्ड-खेड्डोब्भाव-किलिकिञ्च-कोटुममोट्टाय-णीसर-वेल्ला:' (४।१६८) वेल्लादेशः । 'शत्रानशः' (३।१८१) न्त० । 'व्यञ्जना०' (४।२३९) अत् । अथवा पेल (४३२)-फेल (४३३)-शेल (४३४) - षेलु (४३५) - सेल (४३६) - वेह (४३७) - सल (४३८) - तिल (४३९) - तिल्ल (४४०) - पल्ल (४४१) - 'वेल्ल गतौ' (४४२) वेल्ल् । वेल्लतीति । शतृप्र० । 'शत्रानशः' (३।१८१) न्तः । 'व्यञ्जना०' (४।२३९) अत् वेल्लंतो ॥६६॥
वाऽव्ययोत्खातादावदातः ॥ ८।१६७ ॥ अव्ययेषु उत्खातादिषु च शब्देषु आदेराकारस्य अद् वा भवति ॥
अव्ययम् - जह जहा । तह तहा । अहव अहवा । व वा । ह हा । इत्यादि ।
उत्खातादि - उक्खयं उक्खायं । चमरो चामरो । कलओ कालओ । ठविओ ठाविओ । परिविओ परिठ्ठाविओ । संठविओ संठाविओ । पययं पाययं । तलवेण्टं तालवेण्टं । तलवोण्टं तालवोण्टं । हलिओ हालिओ । नराओ नाराओ । बलया बलाया । कुमरो कुमारो । खइरं खाइरं ॥
उत्खात । चामर । कालक । स्थापित । प्राकृत । तालवृन्त । हालिक । नाराच । बलाका । कुमार । खादिर इत्यादि। केचिद् ब्राह्मण-पूर्वाह्णयोरपीच्छन्ति ॥ बम्हणो बाम्हणो । पुव्वण्हो पुव्वाण्हो ॥ दवग्गी दावग्गी । चडू चाडू इति शब्दभेदात् सिद्धम् ॥
[वाऽव्ययोत्खातादावदातः] वा प्रथमा सि । अव्यय-उत्खातादि । उत्खात आदौ यस्य स उत्खातादिः । अव्ययं च उत्खातादिश्च = अव्ययोत्खातादिस्तस्मिन् = अव्ययोत्खातादौ । सप्तमी ङि । अत् प्रथमा सि । आत् षष्ठी ङस् ।
[जह जहा ] यथा । 'आदेर्यो जः' (१।२४५) यस्य जः । 'ख-घ-थ-ध-भाम्' (१।१८७) थस्य हः । अनेन वा आ० → अ० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् जह जहा ।
[तह तहा] तथा । 'ख-घ-थ०' (१२१८७) थस्य हः । अनेन वा आ० → अ० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् तह तहा ।
[अहव अहवा] अथवा । 'ख-घ-थ०' (१२१८७) थस्य हः । अनेन वा आ० → अ० । प्रथमा सि । 'अव्ययस्य' (३३२७) सिलुप् अहव अहवा । एवम्-व वा । ह हा इत्यादि ।
[उक्खयं उक्खायं ] उत्खात । अनेन वा आ० → अ० । 'क-ग-ट-ड०' (२।७७) त्लुक् । 'अनादौ०' (२२८९) खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२९०) पूर्वखस्य कः । 'क-ग-च-ज०' (१११७७) तुलुक् । 'अवर्णो यश्रुतिः' (१।१८०) अस्य यः । प्रथमा सि । 'क्लीबे०' (३२५) सि० →म् । 'मोऽनुस्वारः' (०२३) अनुस्वारः उक्खयं उक्खायं ।
[चमरो चामरो] चामर (२) । अनेन वा आ० → अ० । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० चमरो चामरो।
[कलओ कालओ] कालक (२) । अनेन वा आ० → अ० । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० कलओ कालओ ।