________________
अष्टमाध्यायस्य प्रथमः पादः ॥
४९
[पउमं ] पद्म । ‘पद्म-छद्म-मूर्ख-द्वारे वा' (२।११२) मात् प्राग् उकारः । 'लोकात्' (१।१।३) पदुम । 'क-ग०' (१।१७७) दलुक । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१९२३) अनुस्वारः पउमं ॥६॥
नमस्कार-परस्परे द्वितीयस्य ॥ ८॥१६२ ॥ अनयोद्वितीयस्य अत ओत्वं भवति ॥ नमोक्कारो । परोप्परं ॥ [नमस्कारपरस्परे ] नमस्कारश्च परस्परं च = नमस्कारपरस्परम्, तस्मिन् = नमस्कारपरस्परे । सप्तमी ङि । [द्वितीयस्य ] द्वितीय षष्ठी ङस् ।
[नमोक्कारो] नमस्कार । 'क-ग-ट-ड-त-द-प०' (२७७) स्लुक् । अनेन ओत्वं - म० → मो० । "अनादौ०' (२१८९) द्वित्वं-का० → क्का० । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० नमोकारो।
[परोप्परं] परस्पर । 'क-ग-ट-ड-त-द-प०' (१७७) स्लुक् । अनेन रस्य रो० । 'अनादौ०' (२१८९) द्वित्वंपस्य प्प० । प्रथमा सि । 'क्लीबे स्वरान्म् से:' (३।२५) सि० →म् । 'मोऽनुस्वारः' (११२३) अनुस्वारः परोप्परं ॥६२॥
वाऽपौ ॥ ८।१६३ ॥ अपर्यतौ धातौ आदेरस्य ओत्वं वा भवति ॥ ओप्पेइ अप्पेइ । ओप्पिअं अप्पिअं ।। [वाऽपौं] वा प्रथमा सि । अर्पि सप्तमी ङि।
[ओप्पेड़ अप्पेइ] 'ऋक् गतो' (११३५) ऋ । इयति कश्चित् तं इयूतं अन्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० → इ० । 'अति-री-व्ली-ही.' (४।२।२१) पोऽन्तः । 'पुस्-पौ' (४।३।३) ऋस्थाने अर्० । द्वित्वे 'लोकात्' (१।१।३) अपि इति स्थिते वर्त्तः तिव् । 'त्यादीनामाद्यत्रय०' (३।१३९) इति तिव्स्थाने इ० । 'णेरदेदावावे' (३३१४९) पिं० → पें० । 'सर्वत्र०' (२७९) लुक् । “अनादौ०' (२१८९) द्वित्वं - पे० → प्पे० । अनेन अस्य वा ओ० ओप्पेड़ । पक्षे-अप्पेड़।
[ओप्पिअं अप्पिअं] अपि पूर्ववत् । अर्पते स्म = अम्पितम् । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त० । 'लुगावी क्त-भाव-कर्मसु' (३।१५२) इति णिग्लोप: । 'व्यञ्जनाददन्ते' (४।२३९) प् अग्रे अत् । 'क्ते' (३।१५६) इति अ० → इ० । 'लोकात्' (१।१।३) पि० । 'अनादौ०' (२१८९) द्वित्वं-प्पि० । अनेन वा अस्य ओ० । 'क-ग-च-ज०' (१११७७) इति त्लुक् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनुस्वारः' (१९२३) अनुस्वारः ओप्पिअं । पक्षेअप्पिअं॥६३।।
स्वपावुच्च ॥ ८।१६४ ॥ स्वपितौ धातौ आदेरस्य ओत्-उत् च भवति ॥ सोवइ सुवइ । [स्वपावुच्च ] स्वपि सप्तमी ङि । उत् प्रथमा सि । च प्रथमा सि ।
[सोवइ सुवइ ] 'विष्वपंक् शये' (१०८८) ष्वप् । 'ष: सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२२३९८) स्वप् । वर्त० तिव् । 'त्यादीनामाद्यत्रयस्या०' (३।१३९) तिव्० → इ० । 'सर्वत्र०' (२१७९) व्लुक् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) सपइ इति स्थिते 'पो वः' (११२३१) प० → व० । अनेन प्रथमे सस्थाने सो-सोवइ । द्वितीये सु-सुवइ ॥६४|| १. E.G 'तैलादौ' (२।९८) । २. G. 'तैलादौ' (२।९८) ।