________________
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
ब्रह्मचर्य चः ॥८।१५९ ॥ ब्रह्मचर्यशब्दे चस्य अत एत्वं भवति ॥ बम्हचेरं ॥
[ ब्रह्मचर्ये चः] ब्रह्मचर्य सप्तमी ङि । च षष्ठी ङस् ।
[बम्हचेरं] ब्रह्मचर्य । 'सर्वत्र०' (२७९) लुक् । 'पक्ष्म-श्म-ष्म-स्म-झां म्हः' (२७४) ह्मस्य म्हः । अनेन अस्य ए० → चे० । 'ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये र्यो रः' (२०६३) र्यस्य रः । प्रथमा सि । 'क्लीबे० (३।२५) सि० → म् । 'मोऽनुस्वारः' (१।२३) अनुस्वारः बम्हचेरं ॥५९||
तोऽन्तरि ॥ ८।१६० ॥ अन्तर्शब्दे तस्य अत एत्वं भवति || अन्तःपुरम् → अंतेउरं । अन्तश्चारी → अंतेचारी ॥ क्वचिन्न भवति - अंतग्गयं । अंतो-वीसंभ-निवेसिआणं ॥ [ तोऽन्तरि] त् षष्ठी ङस् । अन्तर् सप्तमी ङि ।
[अंतेउरं ] अन्तर्-पुर । अन्तर्-मध्ये पुरम् । 'अन्त्यव्यञ्जनस्य' (१।११) लुक् । अनेन एकारः - त० → ते० । 'क-ग-च-ज०' (१११७७) प्लुक् । प्रथमा सि । 'क्लीबे स्वरान्म् से:' (३।२५) सि० →म् । 'मोऽनुस्वारः' (०२३) अनुस्वारः अंतेउरं । 'तो दोऽनादौ शौरसेन्यामयुक्तस्य' (४।२६०) इति त० → द० अंदेउरं । शेषं पूर्ववत् ।
[अंतेआरी] अन्तर्-चारिन् । 'अन्त्य०' (१।११) र्-न्लुक् । अनेन एकारः - त० → ते० । 'क-ग-च-ज०' (१।१७७) च्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१२११) सलुक् अंतेआरी ।
[अंतग्गयं] अन्तर्गत । प्रथमा सि । 'सर्वत्र०' (२७९) लुक् । 'अनादौ०' (२१८९) गस्य द्वित्वम् । 'क-ग-चज०' (१२१७७) त्लुक् । 'अवर्णो.' (१।१८०) अस्य यः । 'क्लीबे०' (३६२५) सि० →म् । 'मोऽनुस्वारः' (१९२३) अनुस्वारः अंतग्गयं ।
[अंतो-वीसंभ-निवेसिआणं] अन्तर् । 'र: पदान्ते०' (११३५३) रस्य विसर्गः । 'अतो डो विसर्गस्य' (१३७) विसर्गस्य डो० → ओ० । 'डित्यन्त्य०' (२२२११४) अलुक् । 'लोकात्' (१।१३) अंतो। विश्रम्भनिवेशित । 'सर्वत्र०' (२१७९) लुक् । 'लुप्तय-र-व-श-ष-सां०' (१।४३) वि० → वी० । 'श-षोः सः' (१।२६०) शस्य सः । 'क-ग-चज०' (१।१७७) इति त्लुक् । षष्ठी आम् । 'जस्-शस्-ङसि-तो-दो-द्वामि दीर्घः' (३।१२) दीर्घः- अ० → आ० । टाआमोर्णः (३।६) आम्स्थाने णः । 'क्त्वा-स्यादेर्ण-स्वोर्वा' (११२७) अनुस्वारः वीसंभ-निवेसिआणं ॥६०॥
ओत् पद्मे ॥ ८१६१ ॥ पद्मशब्दे आदेरत ओत्वं भवति ॥ पोम्मं ॥ 'पद्म-छद्म०' (२।११२) इति विश्लेषे न भवति ॥ पउमं । [ओत् पद्म] ओत् प्रथमा सि । पद्म सप्तमी ङि ।
[पोम्म ] पद्म । अनेन अकारस्य ओकारः । 'क-ग-ट-ड०' (२७७) द्लुक् । "अनादौ०' (२१८९) मस्य द्वित्वम्। प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः पोम्मं । १. B.EG. 'तैलादौ' (२।९८) ।