________________
अष्टमाध्यायस्य प्रथमः पादः ॥
[एच्छय्याऽऽदौ ] एत् प्रथमा सि । शय्याऽऽदि सप्तमी ङि ।
[सेज्जा शय्या । प्रथमा सि । 'श-षोः सः' (२६०) श० स० । 'द्य-य्य-या जः' (२।२४) य्यस्य जः । "अनादौ०' (२।८९) जस्य द्वित्वम् । अनेन आदेरस्य एत्वम् । 'अन्त्य०' (१।११) स्लुक् सेज्जा ।
[सुंदेरं] सौन्दर्य । 'उत्सौन्दर्याऽऽदौ' (१।१६०) सौ० → सु० । अनेन एत्वम् । 'ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये र्यो र:' (२०६३) र्य० → र० । प्रथमा सि । 'क्लीबे स्वरान्म् से:' (३।२५) सि० , म्० । 'मोऽनुस्वारः' (१२३ सुंदेरं ।
[गेंदुअं] कन्दुक । प्रथमा सि । 'मरकत-मदकले गः कन्दुके त्वादेः' (११८२) कस्य गः । अनेन एकारः । 'कग-च-ज०' (१।१७७) क्लुक् । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनुस्वारः' (१९२३) । अनुस्वारः गेंदुअं ।
[एत्थ ] अत्र । अनेन अ० → ए० । 'त्रपो हि-ह-त्थाः' (२।१६१) त्रस्य स्थ० एत्थ ।
[पुरेकम्मं] पुराकर्म । आर्षत्वादाकारस्य एत्वम् । 'सर्वत्र०' (२७९) लुक् । 'अनादौ०' (२१८९) मस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) । अनुस्वारः पुरेकम्मं ॥५७||
वल्ल्युत्कर-पर्यन्ता-ऽऽश्चर्ये वा ॥ ८॥१५८ ॥ एषु आदेरस्य एत्वं वा भवति ॥ वेल्ली वल्ली । उक्केरो उक्करो । पेरन्तो पज्जन्तो । अच्छेरं अच्छरिअं अच्छअरं अच्छरिज्जं अच्छीअं ॥
[वल्ल्युत्करपर्यन्ताऽऽश्चर्ये] वल्ली च उत्करश्च पर्यन्तश्च आश्चर्यं च = वल्ल्युत्करपर्यन्ताऽऽश्चर्यम्, तस्मिन् = वल्ल्युत्करपर्यन्ताऽऽश्चर्ये । सप्तमी ङि ।
[वा] वा प्रथमा सि । [वेल्ली वल्ली ] वल्ली (२) । अनेन वा एत्वम् । प्रथमा सि । 'अन्त्यव्यः' (१।११) स्लुक् वेल्ली वल्ली ।
[उक्केरो उक्करो] उत्कर (२) । 'क-ग-ट-ड-त-द-प०' (२७७) लुक् । "अनादौ०' (२८९) कस्य द्वित्वम् । अनेन एकारः । 'अतः से?ः' (३२) सि० → डो० → ओ० उक्केरो उक्करो।
[पेरन्तो पज्जन्तो] पर्यन्त (२) । अनेन वा एकारः । यत्र एत्वं तत्र 'एतः पर्यन्ते' (२०६५) र्यस्य रः । द्वितीये 'द्यय्य-र्यां जः' (२०२४) र्यस्य जः । 'अनादौ०' (२८९) जस्य द्वित्वम् । प्रथमा सि । 'अतः से?ः' (३।२) सि० → डो० → ओ० पेरन्तो पज्जन्तो।
[अच्छेरं अच्छरिअं अच्छअरं अच्छरिज्जं अच्छीअं] आश्चर्य (१) । 'हुस्वः संयोगे' (१९८४) आ० → अ० । हस्वात् थ्य-श्व-त्स-प्सामनिश्चले' (२२२१) श्वस्य छः । 'अनादौ०' (२२८९) छस्य द्वित्वम् । 'द्वितीय-तुर्य०' (२९०) पूर्वछस्य चः । अनेन वा एत्वं-च्छे० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः अच्छेरं । पक्षे-आश्चर्य (४) । 'हुस्वः संयोगे' (१८४) आ० → अ० । 'हुस्वात् थ्य-श्च०' (२।२१) श्वस्य छः । 'अनादौ०' (२।८९) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । 'अतो रिआ-ऽर-रिज्ज-रीअं' (२०६७) र्यस्य स्थाने रिअ-अर-रिज्ज-रीअ । 'क्लीबे०' (३६२५) सि० →म्० । 'मोऽनुस्वारः' (१९२३) अनुस्वारः अच्छरिअं अच्छअरं अच्छरिज्जं अच्छीअं ॥५८॥
१. FG 'तैलादौ' (२९८) । २. D. 'सेवादौ वा' (२२९९) ।