________________
४६
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[पुढुमं पुढमं पढुमं पढमं] प्रथम (४) । 'सर्वत्र०' (२२७९) लुक् । 'मेथी-शिथिर-शिथिल-प्रथमे थस्य ढः' (१।२१५) चतुर्ध्वपि थस्य ढः । अनेन प्रथमे उभयोरुकारः । द्वितीये प्रथमस्य उकारः । तृतीये द्वितीयस्य उकारः । चतुर्थे न एकस्याऽपि उकारः । प्रथमा सि । 'क्लीबे स्वरा०' (३।२५) सि० →म् । 'मोऽनुस्वारः' (१९२३) अनुस्वारः पुढुमं पुढमं पढुमं पढमं ॥५५॥
ज्ञो णत्वेऽभिज्ञाऽऽदौ ॥ ८॥१५६ ॥ अभिज्ञ एवंप्रकारेषु ज्ञस्य णत्वे कृते ज्ञस्यैव अत उत्वं भवति ॥ अहिण्णू । सव्वण्णू । कयण्णू । आगमण्णू ॥ णत्व इति किम् ? अहिज्जो । सव्वज्जो ॥ अभिज्ञाऽऽदाविति किम् ? प्राज्ञः → पण्णो ॥ येषां ज्ञस्य णत्वे कृते उत्वं दृश्यते ते अभिज्ञाऽऽदयः ॥ [ज्ञो णत्वेऽभिज्ञाऽऽदौ] ऋ षष्ठी ङस् । णत्व सप्तमी ङि। अभिज्ञाऽऽदि सप्तमी ङि ।
[अहिण्णू] अभिज्ञ । प्रथमा सि । 'ख-घ-थ-ध-भाम्' (१।१८७) भस्य हः । 'म्न-ज्ञोर्णः' (२।४२) ज्ञस्य णः । 'अनादौ०' (२।८९) णस्य द्वित्वम् । अनेन णस्य णु० । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् अहिण्णू ।
[सव्वण्ण] सर्वज्ञ । प्रथमा सि । 'सर्वत्र ल-व-रामवन्द्रे' (२७९) लुक् । 'अनादौ०' (२।८९) वस्य द्वित्वम् । 'म्न-ज्ञोर्णः' (२।४२) ज्ञस्य णः । 'अनादौ०' (२१८९) णस्य द्वित्वम् । अनेन णस्य णु० । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् सव्वण्णू ।
[कयण्णू] कृतज्ञ । प्रथमा सि । 'ऋतोऽत्' (१।१२६) कृ→ क० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अस्य यः । 'म्न-ज्ञोर्णः' (२।४२) ज्ञस्य णः । 'अनादौ०' (२१८९) णस्य द्वित्वम् । अनेन णस्य णु० । 'अक्लीबे सौ' (३।१२) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् कयण्णू ।
[आगमण्णू] आगमज्ञ । प्रथमा सि । 'म्न-ज्ञोर्णः' (२२४२) ज्ञस्य णः । 'अनादौ०' (२१८९) णस्य द्वित्वम् । अनेन णस्य णु० । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् आगमण्णू ।
पक्षे-आयमण्णू । 'क-ग-च-ज०' (१।१७७) ग्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अस्य यः । शेषं प्राग्वत् ।
[अहिज्जो] अभिज्ञ । प्रथमा सि । 'ख-घ-थ-ध-भाम्' (१।१८७) भस्य हः । 'ज्ञो ञः' (२।८३) इति ब्लुक् । 'अनादौ०' (२१८९) जस्य द्वित्वम् । 'अत: से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् अहिज्जो।
[सव्वज्जो] सर्वज्ञ । प्रथमा सि । 'सर्वत्र०' (२७९) लुक् । 'अनादौ०' (२१८९) वस्य द्वित्वम् । 'ज्ञो ञः' (२१८३) इति ब्लुक् । 'अनादौ०' (२२८९) जस्य द्वित्वम् । 'अतः से?:' (३।२) सि० → डो० → ओ० सव्वज्जो ।
[पण्णो ] प्राज्ञ । प्रथमा सि । 'सर्वत्र०' (२७९) लुक् । 'हस्वः संयोगे' (१९८४) पा० → प० । 'म्न-ज्ञोर्णः' (२।४२) ज्ञस्य णः । 'अनादौ०' (२।८९) णस्य द्वित्वम् । 'अत: से?ः' (३।२) सि० → डो० → ओ० पण्णो ॥५६।।
एच्छय्यादौ ॥ ८।१५७ ॥ शय्याऽऽदिषु आदेरस्य एत्वं भवति ॥ सेज्जा । सुंदेरं । गेंदुअं । एत्थ ॥ शय्या । सौंदर्य । कन्दुक । अत्र ॥ आर्षे - पुरेकम्मं ॥