SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य प्रथमः पादः ॥ २९ अक्षि । द्वितीया औ । 'छोऽक्ष्यादौ' (२०१७) क्षस्य छः । 'अनादौ शेषा०' (२१८९) छस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वछस्य चः । 'द्विवचनस्य०' (३।१३०) औ० → शस्० । 'जस्-शसोलुंक्' (३।४) शस्लुक् । 'लुप्ते शसि' (३।१८) दीर्घः - च्छि० → च्छी० अच्छी । सा स्त्री अद्याऽपि ते अक्षिणी शपतीत्यर्थः । अत्र अनेन वा अक्षिशब्दस्य पुंस्त्वम् । अथ नपुंसकत्वम् - [नच्चावियाई तेणम्ह अच्छीइं] 'तेन मम अक्षिणी नर्तिते । 'नृतैच् नर्तने' (११५२) नृत् । नृत्यतोऽक्षिणी, ते नृत्यतोऽन्यः प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । गुणः नर् । नृत्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त०। नर्त इति जाते 'व्रज-नृत-मदां च्चः' (४।२२५) तस्य चः(च्च:) । 'लुगावी क्त-भाव-कर्मसु' (३।१५२) णिग् → आवि० । प्रथमा औ । 'द्विवचनस्य०' (३।१३०) औ० → जस्० । 'जस्-शस इ-इं०' (३।२६) जस्० → इं० - पूर्वस्य च दीर्घः - तस्य ता । 'क-ग-च-ज०' (१।१७७) त्लुक् नच्चाविआई। तद् । तृतीया टा । 'अन्त्य०' (११११) द्लुक् । 'टा-आमोर्णः' (३६) टा० →ण० । 'टाण-शस्येत्' (३।१४) एत्वं-त० → ते० तेण । अस्मद् । षष्ठी ङस् । 'मे-मइ-मम-मह-महं-मज्झ-मज्झं-अम्ह-अम्हं ङसा' (३।११३) अस्मदो ङसा सह अम्ह आदेशः । 'त्यदाद्यव्ययात् तत्स्वरस्य लुक् (१।४०) अलुक् तेणम्ह । अक्षि । प्रथमा औ । 'द्विवचनस्य०' (३।१३०) औ० → जस्० । 'छोऽक्ष्यादौ' (२।१७) क्षस्य छः । 'अनादौ०' (२।८९) छस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वछस्य चः । 'जस्-शस इं०' (३।२६) जस्० → इं० - पूर्वस्य च दीर्घः - च्छि० → च्छी० अच्छीइं। [एसा अच्छी ] एतद् । प्रथमा सि । 'अन्त्यव्य०' (१।११) लुक् । 'तदश्च तः सो०' (३।८६) त० → स० । 'आत्' (२।४।१८) आप्प्र० → आ । 'अन्त्य०' (१।११) स्लुक् एसा । अक्षि । प्रथमा सि । 'छोऽक्ष्यादौ' (२।१७) क्षस्य छः । 'अनादौ शेषा०' (२१८६) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । 'अक्लीबे सौ' (३।१९) दीर्घः - च्छि० → च्छी० । 'अन्त्य०' (१।११) स्लुक अच्छी । वाक्ष्याः - [चक्खू चक्खूइं] चक्षुस् (२) । 'अन्त्य०' (१।११) स्लुक् । 'क्षः खः क्वचित्तु०' (२।३) क्षस्य खः । 'अनादौ०' (२।८९) खस्य दित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । प्रथमा जस् । अनेन वा पुंस्त्वम् । 'जस्शस्-ङसि०' (३।१२) दीर्घः - खु० → खू० । 'जस्-शस ई इं०' (३।२६) जस्० → इं० - पूर्वस्य च दीर्घः चक्खू चक्खूइं। __[नयणा नयणाइं] नयन (२) । प्रथमा जस् । 'नो णः' (११२२८) न० २ ण । अनेन वा पुंस्त्वम् । शेषं पूर्ववत् । नयणा नयणाई। [लोअणा लोअणाई] लोचन (२) । प्रथमा जस् । 'नो णः' (१।२२८) न० →ण । 'क-ग-च-ज०' (१।१७७) चलुक् । अनेन वा पुंस्त्वम् । शेषं पूर्ववत् । लोअणा लोअणाई। [वयणा वयणाई] वचन (२) । प्रथमा जस् । 'नो णः' (१।२२८) न० → ण । 'क-ग-च-ज०' (१।१७७) चलुक्। 'अवर्णो यश्रुतिः' (१११८०) अस्य यः । अनेन वा पुंस्त्वम् । शेषं पूर्ववत् । वयणा वयणाई। १. M. नर्तितानि तेन अस्माकं अक्षीणि । २. A. C. D.E च । 'अनादौ०' (२।८९) च० → च्च० ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy