________________
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[वयं] वयस् । प्रथमा सि । 'अन्त्यः ' (१।११) स्लुक् । बहुलाधिकारात् 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः वयं ।
[सुमणं] सुमनस् । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् । 'नो णः' (१।२२८) न० → ण । बहुलाधिकारात् 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः सुमणं ।
[सम्मं] शर्मन् । प्रथमा सि । 'अन्त्य०' (१।११) नलुक् । 'सर्वत्र०' (२१७९) लुक् । 'अनादौ०' (२।८९) मस्य द्वित्वम् । 'श-षोः सः' (१।२६०) श० → स० । बहुलाधिकारात् 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः सम्म ।
[चम्मं] चर्मन् । प्रथमा सि । 'अन्त्य०' (१।११) न्लुक् । 'सर्वत्र०' (२७९) लुक् । 'अनादौ०' (२।८९) मस्य द्वित्वम् । बहुलाधिकारात् 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः चम्मं ॥३२॥
वाऽक्ष्यर्थ-वचनाद्याः ॥ ८॥१॥३३ ॥ अक्षिपर्याया वचनादयश्च शब्दाः पुंसि वा प्रयोक्तव्याः ।। अक्ष्यर्थाः - अज्ज वि सा सवइ ते अच्छी । 'नच्चावियाई तेणम्ह अच्छीइं ॥ अञ्जल्यादिपाठादक्षिशब्दः स्त्रीलिङ्गेऽपि-एसा अच्छी । चक्खू चक्खूई । नयणा नयणाइं । लोअणा लोअणाई ॥
वचनादि - वयणा वयणाई । विज्जुणा विज्जूए । कुलो कुलं । छन्दो छन्दं । माहप्पो माहप्पं । दुक्खा दुक्खाई । भायणा भायणाई इत्यादि ॥ इति वचनादयः ॥
नेत्ता नेत्ताई । कमला कमलाई इत्यादि तु संस्कृतवदेव सिद्धम् ।।
[वाऽक्ष्यर्थवचनाद्याः] वा प्रथमा सि । अॅक्षिरों येषां ते = अक्ष्यर्थाः । वचन(न) आद्यो येषां ते = वचनाद्याः। अक्ष्याश्च वचनाद्याश्च = अक्ष्यर्थवचनाद्याः । प्रथमा जस् ।
[अज्ज वि सा सवइ ते अच्छी ] अद्याऽपि । 'द्य-यय-यां जः' (२०२४) द्य० → ज० । 'अनादौ०' (२।८९) जस्य द्वित्वम् । 'पदादपेर्वा' (१।४१) अलुक् । 'पो वः' (११२३१) पि० → वि. अज्ज वि ।
तद् । प्रथमा सि । 'अन्त्यव्य०' (१।११) द्लुक् । 'तदश्च त:' सोऽक्लीबे' (३८६) तस्य सः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अन्त्य०' (१।११) स्लुक् सा ।
'शपी आक्रोशे' (९१६) शप् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'त्यादीना०' (३।१३९) तिव्० → इ० । 'लोकात्' (१।१।३) शपइ । 'श-षोः सः' (१।२६०) श० → स० । 'पो वः' (१।२३१) प० → व० सवइ ।
तद् । द्वितीया औ । 'द्विवचनस्य बहुवचनम्' (३।१३०) द्वितीया शस् । 'अन्त्य०' (११११) द्लुक् । 'जस्-शसोलुंक् (३।४) शस्लुक् । 'टाण-शस्येत्' (३।१४) एत्वं - त० → ते० ते ।
१. धावंति तम्मुहं धारिया वि वलियाइ तम्मि वलमाणे । जणसंकुले वि नच्चावियाइ तेणम्ह नयणाई ॥
1 [व० ल० - नयणवज्जा १०।३००] धावतस्तन्मुखं धारिते अपि वलिते तस्मिन् वलति । जनसङ्कलेऽपि नर्तिते तेन मम नयने || २. A. अक्षेरर्थो ।