SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३० व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [विज्जुणा विज्जूए] विद्युत् (२) । 'द्य-य्य-यां जः' (२।२४) द्यस्य जः । 'अनादौ०' (२२८९) जस्य द्वित्वम् । 'अन्त्य०' (१।११) त्लुक् । तृतीया टा । पुंसि-'टो णा' (३।२४) टा० → णा० । अन्यत्र स्त्रियां - 'टा- ङस्-डेरदादि०' (३।२९) टा० → ए० -पूर्वस्य च दीर्घः - ज्जु० → ज्जू० विज्जुणा विज्जूए । __ [कुलो कुलं] कुल (२) । प्रथमा सि । अनेन वा पुंस्त्वम् । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः कुलो कुलं । [छन्दो छन्दं ] छन्दस् (२) । प्रथमा सि । अनेन वा पुंस्त्वम् । 'अन्त्य०' (१।११) स्लुक् । 'अतः सेोः' (३।२) सि० → डो० → ओ० । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः छन्दो छन्दं । [माहप्पो माहप्पं] माहात्म्य (२) । 'हस्वः संयोगे' (१९८४) हा० → ह० । 'अधो म-न-याम्' (२७८) यलुक् । 'भस्मा-ऽऽत्मनोः पो वा' (२०५१) त्मस्य पः । 'अनादौ०' (२१८९) पस्य द्वित्वम् । प्रथमा सि । अनेन वा पुंस्त्वम् । 'अत: से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१९२३) अनुस्वारः माहप्पो माहप्पं । [दुक्खा दुक्खाई] दुःख (२) । प्रथमा जस् । 'जस्-शसोलुंक् (३।४) जस्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः । 'जस्-शस इ-इं०' (३।२६) जस्० → इं० - पूर्वस्य च दीर्घः । 'निर्दुरोर्वा' (१।१३) लुक् । 'अनादौ०' (२।८९) खस्य द्वित्वम् । 'द्वितीय-तुर्य०' (२।९०) पूर्वखस्य कः दुक्खा दुक्खाई। [भायणा भायणाइं] भाजन (२) । प्रथमा जस् । 'क-ग-च-ज०' (१।१७७) ज्लुक् । 'अवर्णो यश्रुतिः' (१२१८०) अस्य यः । 'नो णः' (१।२२८) न० → ण । अनेन वा पुंस्त्वम् । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्शस इँ - इं०' (३।२६) जस्० → इं० -पूर्वस्य च दीर्घः - ण० → णा० भायणा भायणाई । नेत्र-कमलयोस्तु पुं-नपुंसकत्वं संस्कृतेऽप्यस्ति ॥३३।। गुणाद्याः क्लीबे वा ॥८॥१॥३४ ॥ गुणादयः क्लीबे वा प्रयोक्तव्याः ।। गुणाई गुणा ॥ 'एगे लहुअसहावा गुणेहिं लहिउं महंति धणरिद्धि । अन्ने विउलसहावा विहवेहिं गुणाई मग्गंति ॥१॥ देवाणि देवा । बिन्दूई बिन्दुणो । खग्गं खग्गो । मण्डलग्गं मण्डलग्गो । कररुहं कररुहो । रुक्खाइं रुक्खा इत्यादि ॥ इति गुणादयः ॥ [गुणाद्याः क्लीबे वा] गुण आद्यो येषां ते = गुणाद्याः । प्रथमा जस् । क्लीब सप्तमी ङि । वा प्रथमा सि । [गुणाई गुणा ] गुण (२) । प्रथमा जस् । अनेन वा क्लीबत्वम् । 'जस्-शसोलुंक् (३।४) जस्लुक् । 'जस्-शस इँ - इं०' (३।२६) जस्० → इं० -पूर्वस्य च दीर्घः । 'जस्-शस्-ङसि०' (३।१२) दीर्घः गुणाइं गुणा । [एगे लहुअसहावा.....] १. एक्के लहुअ-सहावा गुणेहिँ लहिउं महंति धण-रिद्धि । अण्णे विसुद्ध-चरिआ विहवाहि गुणे विमग्गंति ॥ - [ग० व० ८६६] एके लघुकस्वभावा गुणैर्लब्धुमिच्छन्ति धनऋद्धिम् । अन्ये विशुद्धचरिता विभवाद् गुणान् विमृग्यन्ति(न्ते) ॥
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy