________________
अष्टाध्यायस्य तृतीयः पादः ॥
३३५
[पिअरं] पितृ । द्वितीया अम् । 'नाम्न्यरः' (३।४७) तृ० → तर० । 'अमोऽस्य' (३५) अलुक्-अम्० → म्० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'मोऽनु०' (१९२३) अनुस्वारः पिअरं ।
[पिअरा] पितृ । प्रथमा - द्वितीया औ । 'द्विवचनस्य बहुवचनम्' (३।१३०) द्विवचनस्थाने बहुवचनम् - जस्शस्। 'नाम्न्यरः' (३।४७) तृ० → तर० । 'क-ग-च-ज०' (१११७७) त्लुक् । 'जस्-शस्-ङसि-त्तो०' (३।१२) दीर्घःर० → रा० । 'जस्-शसोलुंक् (३।४) जस्-शस्लुक् पिअरा ॥४४||
आरः स्यादौ ॥ ८॥३।४५ ॥ स्यादौ परे ऋत आर इत्यादेशो भवति । भत्तारो । भत्तारा । भत्तारं । भत्तारे । भत्तारेण । भत्तारेहिं ॥ एवं ङस्यादिषूदाहार्यम् ॥ लुप्तस्याद्यपेक्षया भत्तारविहिअं । [आरः स्यादौ ] आर प्रथमा सि । स्यादि सप्तमी ङि ।
[भत्तारो] भर्तृ । प्रथमा सि । 'सर्वत्र ल-व-रामवन्द्रे' (२२७९) रलुक । अनेन त० → तार० । 'अनादौ०' (२२८९) द्वित्वं - ता० → त्ता० । 'अतः सेझैः' (३।२) सि० → डो० → ओ० भत्तारो।
[भत्तारा] भत्तार पूर्ववत् । प्रथमा जस् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः - र० → रा० । 'जस्-शसोलुंक्' (३।४) जस्लुक् भत्तारा ।
[भत्तारं] भत्तार पूर्ववत् । द्वितीया अम् । 'अमोऽस्य' (३५) अलुक्-अम्० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः भत्तारं ।
[भत्तारे ] भत्तार पूर्ववत् । द्वितीया शस् । 'टाण-शस्येत्' (३।१४) र० → रे० । 'जस्-शसोलुंक्' (३।४) शस्लुक् भत्तारे । __[भत्तारेण ] भत्तार पूर्ववत् । तृतीया टा । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) र० → रे० भत्तारेण ।
[भत्तारेहिं] भत्तार पूर्ववत् । तृतीया भिस् । 'भिसो हि-हिँ-हि' (३७) भिस्० → हिं० । 'भिस्-भ्यस्-सुपि' (३।१५) र० → रे० भत्तारेहिं ।
लुप्तेपि आरः स्यादौ स्यात् -
[भत्तारविहिअं] भर्तृ-विहितं । भ; विहितं = भर्तृविहितम् । 'सर्वत्र ल-व०' (२७९) लुक् । अनेन तृ. → तार० । 'अनादौ०' (२।८९) द्वित्वं - ता० → ता० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः भत्तारविहिअं ॥४५॥
आ अरा मातुः ॥ ८।३।४६ ॥ मातृसम्बन्धिन ऋतः स्यादौ परे आ - अरा इत्यादेशौ भवतः ॥ माआ माअरा । माआउ माआओ । माअराउ माअराओ । माअं माअरं । इत्यादि ।
बाहुलकाज्जनन्यर्थस्य आ देवतार्थस्य तु अरा इत्यादेशः । माआए कुच्छीए । नमो माअराण ॥ 'मातुरिद्वा' (१११३५) इतीत्त्वे माईण इति भवति ॥ 'ऋतामुद०' (३।४४) इत्यादिना उत्त्वे तु माऊए समन्निअं वंदे इति ॥ स्यादावित्येव - माइदेवो। माइगणो ॥