________________
३३४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[भत्तुणो भत्तुस्स] भर्तृ (२) । षष्ठी ङस् । अनेन वा तृ० → तु० । 'अनादौ०' (२।८९) द्वित्वं - तु० → त्तु० । 'ङसि-ङसोः पुं-क्लीबे वा' (२।२३) ङस् → णो० । द्वितीये ङस्स्थाने 'ङसः स्सः' (३।१०) ङस् → स्स० भत्तुणो भत्तुस्स । पक्षे
[भत्तारस्स] भत्तार । षष्ठी ङस् । 'ङसः स्सः' (३।१०) ङस्० → स्स० भत्तारस्स ।
[भत्तूणं भत्तूण] भत्तु पूर्ववत् (२) । षष्ठी आम् । 'टा-आमोर्णः' (३६) आम्० → ण । 'जस्-शस्-ङसि०' (३।१२) दीर्घः । 'क्त्वा-स्यादेर्ण-स्वोर्वा' (१२२७) अनुस्वारो वा स्यात् भत्तूणं भत्तूण । पक्षे
[भत्ताराणं भत्ताराण ] भत्तार पूर्ववत् । षष्ठी आम् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः । 'टा-आमोर्णः' (३।६) आम्० → ण । 'क्त्वा०' (१।२७) वाऽनुस्वारः भत्ताराणं भत्ताराण ।
[भत्तुम्मि भत्तारे भत्तारम्मि] भत्तु पूर्ववत् । सप्तमी ङि। 'डे-म्मि-..' (३।११) ङि० →म्मि० भत्तुम्मि । पक्षेभत्तारे भत्तारम्मि ।
[भत्तूसु] भत्तु पूर्ववत् । सप्तमी सुप् । 'इदुतो दीर्घः' (३।१६) त्तु० → त्तू० भत्तूसु । पक्षे
[भत्तारेसु] भर्तृ । सप्तमी सुप् । 'आरः स्यादौ' (३।४५) तृ० → तार० । 'अनादौ०' (२।८९) द्वित्वं - तार० → त्तार० । 'सर्वत्र०' (२७९) लुक् । 'भिस्-भ्यस्-सुपि' (३।१५) एत्त्वं - २० → रे० भत्तारेसु ।
[पिउणो] पितृ । प्रथमा जस् - द्वितीया शस् - पञ्चमी ङसि-षष्ठी ङस् । अनेन नाम्न्यपि उत् - तृ० → तु० । 'जस्-शसोर्णो वा' (३।२२) जस्० - शस्० → णो० । 'ङसि-ङसो:०' (३।२३) ङसि०-ङस्० → णो । 'क-ग-च-ज०' (१।१७७) त्लुक् पिउणो ।
[जामाउणो] जामात । प्रथमा जस्-द्वितीया शस्-पञ्चमी ङसि-षष्ठी ङस् । अनेन नाम्न्यपि उत्-तृ० →तु० । 'जस्-शसोर्णो वा' (३।२२) जस्०-शस्० →णो० । 'ङसि-ङसोः पुं-क्लीबे वा' (३।२३) ङसि० - ङस्० → णो० । 'क-ग-च-ज०' (१११७७) त्लुक् जामाउणो ।
[भाउणो] भ्रातृ । प्रथमा जस् - द्वितीया शस्-पञ्चमी ङसि-षष्ठी ङस् । 'सर्वत्र ल-व०' (२७९) लुक् । अनेन नाम्न्यपि उत्-तृ० → तु० । 'जस्-शसोर्णो वा' (३।२२) जस्०-शस्० → णो० । 'ङसि-ङसो:०' (३।२३) ङसि० → ङस्० → णो० । 'क-ग-च-ज०' (१।१७७) त्लुक् भाउणो ।
[पिउणा] पितृ । तृतीया टा । अनेन नाम्न्यपि उत्-तृ० → तु० । 'टो णा' (३।२४) टा० → णा० । 'क-ग-चज०' (१।१७७) त्लुक् पिउणा ।।
[पिऊहिं] पितृ । तृतीया भिस् । अनेन नाम्न्यपि उत् - तृ० → तु० । 'भिसो हि-हि-हिं' (३७) भिस्० → हिं० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'इदुतो दीर्घः' (३.१६) दीर्घः - उ० → ऊ० पिऊहिं ।
[पिऊसु] पितृ । सप्तमी सुप् । अनेन नाम्न्यपि उत् - तृ० →तु० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'इदुतो दीर्घः' (३।१६) उ० → ऊ० पिऊसु ।
[पिअरा] पितृ । प्रथमा जस् । 'नाम्न्यरः' (३।४७) तृ० → तर० । 'जस्-शस्-ङसि-तो०' (३।१२) दीर्घः - २० → रा० । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'क-ग-च-ज०' (१।१७७) त्लुक् पिअरा।
[पिआ] पितृ । प्रथमा सि । 'आ सौ नवा' (३।४८) तृ० → ता० । 'क-ग-च-ज०' (१३१७७) त्लुक् । 'अन्त्यव्य०' (११११) स्लुक् पिआ ।