________________
अष्टमाध्यायस्य तृतीयः पादः ॥
३२३
[घेणू] धेनु । प्रथमा सि । 'नो णः' (१।२२८) नु० → णु० । 'अक्लीबे सौ' (३।१९) दीर्घः - णु० → णू० । 'अन्त्यव्य०' (१।११) स्लुक् धेणू । [वहू] वधू । प्रथमा सि । 'ख-घ-थ-ध-भाम्' (१।१८७) धस्य हः । 'अन्त्यव्य०' (१।११) स्लुक् वहू ॥२९॥
नात आत् ॥ ८॥३॥३०॥ स्त्रियां वर्तमानादादन्तानाम्नः परेषां टा-ङस्-ङि-ङसीनामादादेशो न भवति ॥ मालाअ (२) । मालाइ मालाए कयं सुहं ठिअं आगओ वा ॥ [नात आत्] न प्रथमा सि । आत् पञ्चमी ङसि । आत् प्रथमा सि ।
[ मालाअ (२) मालाइ मालाए कयं सुहं ठिअं आगओ वा] माला (४) । तृतीया टा-पञ्चमी ङसि-षष्ठी ङस्सप्तमी ङि । अनेन टास्थाने-ङसिस्थाने अत्- ङस्स्थाने इत् - ङिस्थाने एत् । मालाअ (२) मालाइ मालाए ।
कयं पूर्ववत् [२।११४] ।
मु(सु)ख । 'ख-घ-थ-ध-भाम्' (१।१८७) खस्य ह० सुहं । स्था । तिष्ठति स्म = स्थितम् । 'श्लिष-शीङ्-स्था०' (५।१।९) क्तप्र० → त० । 'स्थष्ठा-थक्क-चिट्ठ०' (४।१६) स्था० → ठा० । 'स्वरादनतो वा' (४।२४०) अत् । 'ते' (३।१५६) इ० । 'लुक् (१।१०) आलुक् । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः ठिअं। आगओ पूर्ववत् [३।१६] ॥३०॥
प्रत्यये डीनवा ॥ ८।३।३१ ॥ अणादिसूत्रेण (२।४।२०) प्रत्ययनिमित्तो यो ङीरुक्तः स स्त्रियां वर्तमानान्नाम्नो वा भवति ॥ साहणी । कुरुचरी । पक्षे-'आत्' (२।४।१८) इत्याप् साहणा । कुरुचरा ॥ [प्रत्यये डीनवा] प्रत्यय सप्तमी ङि । ङी प्रथमा सि । नवा प्रथमा सि ।
[साहणी] साध्यतेऽनया । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० → अन । अनेन वा ङीप्र० । 'ख-घ-थ-धभाम्' (१।१८७) ध० → ह० । 'नो णः' (१।२२८) नी० → णी० । 'लुक् (१।१०) अलुक् । 'लोकात्' (११।३) णी० साहणी । __[कुरुचरी] कुरुषु चरति । 'चरेष्टः' (५।१।१३८) टप्र० → अ । अनेन वा ङीप्र० । 'लुक्' (१।१०) अलुक् । 'लोकात्' (१।१।३) री० कुरुचरी । पक्षे
[साहणा] साधन । 'ख-घ-थ०' (१।१८७) ध० → ह० । 'नो णः' (१२२८) न० →ण । 'आत्' (२।४।१८) आप्प्र० → आ । 'अन्त्य०' (१।११) स्लुक् साहणा । [कुरुचरा ] कुरुचर । 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् कुरुचरा ॥३१॥
अजातेः पुंसः ॥ ८।३।३२ ॥ अजातिवाचिन: पुल्लिङ्गात् स्त्रियां वर्तमानात् ङीष् भवति ॥
नीली नीला । काली काला । हसमाणी हसमाणा । सुप्पणही सुप्पणहा । इमीए इमाए । इमीणं इमाणं । एईए एआए। एईणं एआणं ॥