________________
अष्टमाध्यायस्य तृतीयः पादः ॥
३२१
टास्थाने अ० - ङस्स्थाने इ० - ङिस्थाने ए० - पूर्वस्य च दीर्घः मुद्धाअ मुद्धाइ मुद्धाए । आकारान्तशब्दस्य आत् आदेशो न भवति । 'नात आत्' (३।३०) इत्यनेन निषेधः कृतस्तदुदाहरणं नोक्तम्, मुग्धाशब्दस्य आकारान्तत्वात् । कयं पूर्ववत् [२।११४] ।
मुखं । 'ख-घ-थ०' (१।१८७) खं० → हं० मुहं ।
स्था । तिष्ठति स्म = स्थितम् । “श्लिष-शीङ्-स्था-ऽऽस-वस०' (५।१।९) क्तप्र० → त० । 'स्थष्ठा-थक्क-चिट्ठ०' (४।१६) स्था० → ठा० । 'स्वरादनतो वा' (४।२४०) अत् । 'क्ते' (३।१५६) इ० । 'लुक्' (१।१०) आलुक् । 'क-गच-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः ठिअं ।
[मुद्धिआअ मुद्धिआइ मुद्धिआए] मुग्धा । 'स्वार्थे कश्च वा' (२।१६४) कप्र० । 'इच्चापुंसो०' (२।४।१०७) ग्धा० ग्धि० । 'आत' (२।४।१८) आपप्र० आ । 'समानानां.' (११) दीर्घः । मुग्धिका इति जाते तृतीया टा-षष्ठी ङस्- सप्तमी ङि । अनेन टास्थाने अ० - ङस्स्थाने इ० - ङिस्थाने ए० आदेशाः । 'क-ग-ट-ड०' (२७७) ग्लुक् । 'अनादौ०' (२।८९) द्वित्वं-ध्धा० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वधस्य दः । 'क-ग-च-ज०' (१।१७७) क्लुक् मुद्धिआअ मुद्धिआइ मुद्धिआए।
[कमलिआअ कमलिआइ कमलिआए] कमला । कप्रत्यये कमलिका पूर्ववत् । तृतीया टा-षष्ठी ङस्-सप्तमी ङि । अनेन विभक्तिस्थाने अत्-इत्-एत् कमलिआअ कमलिआइ कमलिआए।
[बुद्धीअ बुद्धीआ बुद्धीइ बुद्धीए कयं विहओ ठिअं वा] बुद्धि (४) । तृतीया टा - षष्ठी ङस्-सप्तमी ङि । अनेन विभक्तिस्थाने अत्-आत्-इत्-एत्-पूर्वस्य च दीर्घः-द्धि० →द्धी० बुद्धीअ बुद्धीआ बुद्धीइ बुद्धीए । कयं पूर्ववत् [२।११४] । विभव । प्रथमा सि । 'ख-घ-थ-ध-भाम्' (१।१८७) भ० → ह० । 'क-ग-च-ज०' (१।१७७) व्लुक् । 'अत: सेर्डोः' (३।२) सि० → डो० → ओ० विहओ । ठिअं पूर्ववत् ।
[सहीअ सहीआ सहीइ सहीए कयं वयणं ठिअं वा] सखी । तृतीया टा-षष्ठी ङस्-सप्तमी ङि । 'ख-घ-थ०' (१११८७) खस्य हः । अनेन विभक्तिस्थाने अदादयश्चत्वार आदेशाः सहीअ सहीआ सहीइ सहीए । कयं पूर्ववत् [२२११४] । वदनं वचनं वा । 'क-ग-च-ज०' (१।१७७) द-चयोर्लुक् । 'नो णः' (१२२२८) न० → ण । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० वयणं । ठिअं पूर्ववत् ।
[घेणूअ घेणूआ धेणूड घेणूए कयं दुद्धं ठिअं वा] धेनु (४) । तृतीया टा-षष्ठी ङस्-सप्तमी ङि । 'नो णः' (१।२२८) नु० → णु० । अनेन विभक्तिस्थाने अदादयश्चत्वार आदेशाः - पूर्वस्य च दीर्घः घेणूअ घेणूआ धेणूइ धेणूए। कयं पूर्ववत् [२।११४] । दुग्ध । प्रथमा सि । 'क-ग-ट-ड०' (२७७) ग्लुक् । 'अनादौ०' (२१८९) द्वित्वं-ध्ध० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वधस्य दः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः दुद्धं । ठिअं पूर्ववत् ।
[वहूअ वहूआ वहूइ वहूए कयं भवणं ठिअं वा] वधू (४) । तृतीया टा - षष्ठी ङस् - सप्तमी ङि । 'ख-घथ-ध-भाम्' (१।१८७) धस्य हः । अनेन विभक्तिस्थाने अदादयश्चत्वार आदेशाः वहूअ वहूआ वहूइ वहूए । कयं पूर्ववत् [२।११४] । भवनं । 'नो णः' (११२२८) नं० →णं० भवणं । ठिअं पूर्ववत् ।
ङसे: पुनरेते आदेशा वा भवन्ति -
[मुद्धाअ मुद्धाइ मुद्धाए] मुग्धा (३) । पञ्चमी ङसि । 'क-ग-ट-ड०' (२७७) ग्लुक् । 'अनादौ०' (२।८९) द्वित्वं-ध्धा० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वधस्य दः । अनेन विभक्तिस्थाने अत्-इत्-एत् मुद्धाअ मुद्धाइ मुद्धाए ।