________________
अष्टमाध्यायस्य तृतीयः पादः ॥
३११
'जस्-शस्-ङसि०' (३।१२) इत्यादिना शसि परे क्वचित् दीर्घो भवति, क्वचिन्न भवति, तत इदं सूत्रं शसीति क्रियमाणे 'न दी| णो' (३।१२५) इत्यनेन यो दीर्घनिषेधस्तस्य प्रसङ्गे पुनरपि दीर्घा मा भूदित्याशक्य लुप्ते इत्युक्तम् ॥१८॥
__ अक्लीबे सौ ॥ ८।३।१९ ॥ इदुतोऽक्लीबे नपुंसकादन्यत्र सौ दी| भवति ॥
गिरी । बुद्धी । तरू । धेणू ॥ अक्लीब इति किम् ? दहिं । महुं ॥ साविति किम् ? गिरिं । बुद्धि । तरुं । धेणुं ॥ केचित्तु दीर्घत्वं विकल्प्य तदभावपक्षे सेर्मादेशमपीच्छन्ति - अग्गि । निहिं । वाउं । विहुं॥
[अक्लीबे सौ] अक्लीब सप्तमी ङि । सि सप्तमी ङि । [गिरी] गिरि । प्रथमा सि । अनेन दीर्घः । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् गिरी । [बुद्धी] बुद्धि । प्रथमा सि । अनेन दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् बुद्धी । [तरू] तरु । प्रथमा सि । अनेन दीर्घः । 'अन्त्यव्यः' (१।११) स्लुक् तरू । [घेणू] धेनु । प्रथमा सि । अनेन दीर्घः । 'अन्त्यव्य०' (१२११) स्लुक् । 'नो णः' (१२२२८) नू० →णू० धेणू।
[दहिं] दधि । प्रथमा सि । 'ख-घ-थ-ध-भाम्' (१।१८७) धि० → हि० । 'क्लीबे स्वरान्म् से:' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः दहि ।
[महुं] मधु । प्रथमा सि । 'ख-घ-थ-ध०' (१।१८७) धु० → हु० । 'क्लीबे०' (३।२५) सि० → म० । 'मोऽन०' (१।२३) अनुस्वारः महुँ ।
[गिरिं] गिरि । द्वितीया अम् । 'अमोऽस्य' (३५) अलुक् - अम्० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः गिरिं ।
[बुद्धि] बुद्धि । द्वितीया अम् । 'अमोऽस्य' (३५) अलुक् - अम्० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः बुद्धि ।
[तरुं] तरु । द्वितीया अम् । 'अमोऽस्य' (३५) अलुक् - अम्० → म्० । 'मोऽनु०'. (१।२३) अनुस्वारः तरुं ।
[घेणुं] धेनु । द्वितीया अम् । 'अमोऽस्य' (३५) अलुक् - अम्० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः । 'नो णः' (११२२८) मुं० → गुं० घेणुं ।
केचिदत्र वा दीर्घत्वं वदन्ति, यत्र दीर्घाऽभावस्तत्र सेर्मादेशमिच्छन्ति, तन्मते यथा
[अग्गि] अग्नि । प्रथमा सि । 'अधो म-न-याम्' (२।७८) नलुक् । 'अनादौ०' (२८९) द्वित्वं-ग्गि० । सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः अग्गि ।
[निहिं] निधि । प्रथमा सि । 'ख-घ-थ०' (१।१८७) धि० → हि० । सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः निहिं ।
[वाउं] वायु । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) य्लुक् । सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः वाउं।
[विहुं] विधु । प्रथमा सि । 'ख-घ-थ०' (१।१८७) धु० → हु० । सि० → म्० । 'मोऽनु०' (११२३) अनुस्वारः विहुं ॥१९॥