________________
३१२
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
पुंसि जसो डउ-डओ वा ॥ ८।३।२० ॥ इदुत इतीह पञ्चम्यन्तं सम्बध्यते ॥ इदुत: परस्य जसः पुंसि अउ-अओ इत्यादेशौ डितौ वा भवतः ॥
अग्गउ अग्गओ । वायउ वायओ चिट्ठन्ति ॥ पक्षे-अग्गिणो । वाउणो ॥ शेषे अदन्तवद्भावाद् अग्गी । वाऊ ॥ पुंसीति किम् ? बुद्धीओ। घेणूओ। दहीइं । महूई । जस इति किम् ? अग्गी अग्गिणो । वाऊ वाउणो पेच्छइ ।। इदुत इत्येव - वच्छा ।।
[पुंसि जसो डउ-डओ वा] पुंस् सप्तमी ङि । जस् षष्ठी ङस् । डउ-डओ प्रथमा सि । वा प्रथमा सि ।
[अग्गउ अग्गओ चिट्ठन्ति ] अग्नि (२) । प्रथमा जस् । 'अधो म-न-याम्' (२।७८) नलुक् । 'अनादौ शेषाऽऽदेशयोद्वित्वम्' (२१८९) द्वित्वं-ग्गि० । अनेन वा जसस्थाने प्रथमे डउ इति - द्वितीये डओ इति । 'डित्यन्त्य०' (२।१।११४) इलुक् । 'लोकात्' (१।१।३) अग्गउ अग्गओ ।
[वायउ वायओ चिट्ठन्ति] वायु (२) । प्रथमा जस् । अनेन वा जस्स्थाने डउ इति-डओ इति । 'डित्यन्त्य०' (२।१।११४) उलोपः । 'लोकात्' (१।१।३) वायउ वायओ ।
'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव०' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या० वक्ष० (१) - सूत्र (२९) स्था । वर्त० अन्ति । 'बहुष्वाद्यस्य न्ति-न्ते-इरे' (३।१४२) अन्ति० →न्ति० । 'स्थष्ठा-थक्कचिट्ठ०' (४।१०) स्था० → चिट्ठ इति । 'व्यञ्जना०' (४।२३९) अत् । 'लुक' (११०) अलुक् चिट्ठन्ति ।
[अग्गिणो] अग्नि । प्रथमा जस् । 'अधो म-न-याम्' (२।७८) न्लुक् । 'अनादौ०' (२१८९) द्वित्वं - ग्गि० । 'जस्-शसोर्णो वा' (३।२२) जस्० → णो० अग्गिणो ।
[वाउणो] वायु । प्रथमा जस् । ‘क-ग-च-ज०' (१।१७७) यलुक् । 'जस्-शसोर्णो वा' (३।२२) जस्० → णो० वाउणो।
[अग्गी] 'शेषेऽदन्तवत्' (३३१२४) शेषमकारान्तवत्सिद्धमिति न्यायात् अग्नीत्यत्र प्रथमा जस् । 'जस्-शस्-ङसि०' (३।१२) इत्यनेन इकारो दीर्घः अग्गी ।
[वाऊ] वायु । प्रथमा जस् । 'जस्-शस्-ङसि०' (३।१२) इत्यनेन उकारो दीर्घः वाऊ । [बुद्धीओ] बुद्धि । प्रथमा जस् । 'स्त्रियामुदोतौ वा' (३।२७) जस्० → ओ० - पूर्वस्य च दीर्घः बुद्धीओ।
[घेणूओ ] धेनु । प्रथमा जस् । 'स्त्रियामुदोतौ वा' (३।२७) जस्० → ओ० -पूर्वस्य च दीर्घः । 'नो णः' (१।२८) नू० → णू० घेणूओ।
[ दहीइं] दधि । प्रथमा जस् । 'ख-घ-थ-ध-भाम्' (१।१८७) धि० → हि० । 'जस्-शस इ-इं०' (३।२६) जस्० → इं० - पूर्वस्य च दीर्घः दहीइं।
[महइं] मधु । प्रथमा जस् । 'ख-घ-थ०' (१।१८७) धु० - ० । 'जस-शस इ-इं०' (३।२६) जस० इं० - पूर्वस्य च दीर्घः महूई।
[अग्गी अग्गिणो पेच्छड़ ] अग्नि (२) । द्वि० शस् । 'अधो म-न-याम्' (२१७८) नलुक् । 'अनादौ०' (२१८९) द्वित्वं-ग्गि० । 'जस्-शस्-ङसि०' (३।१२) दीर्घः । 'जस्- शसोलुंक्' (३।४) शस्लुक् । "जस्-शस्०' (३।१२) दीर्घः । पक्षे - 'जस्-शसोर्णो वा' (३।२२) शस० →णो० अग्गी-अग्गियो ।
१. G. 'लुप्ते शसि' (३३१८) दीर्घः ।