SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३१० व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ _ [तरुं पेच्छ ] तरु । द्वितीया अम् । 'अमोऽस्य' (३।५) अलुक् - अम्० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः तरूं । पेच्छ पूर्ववत् ॥१६।। चतुरो वा ॥ ८।३।१७ ॥ चतुर उदन्तस्य भिस्-भ्यस्-सुप्सु परेषु दीर्घा वा भवति ॥ चऊहि चउहि । चऊओ चउओ । चऊसु चउसु ॥ [चतुरो वा] चतुर् षष्ठी ङस् । वा प्रथमा सि । [चऊहि चउहि] चतुर् । तृतीया भिस् । 'अन्त्य०' (१।११) लुक् । 'भिसो हि-हि-हिं' (३७) भिस्० → हि० । 'क-ग-च-ज०' (१।१७७) त्लुक् । अनेन वा दीर्घः - चऊहि । पक्षे - चतुर् । दीर्घ विना शेषं पूर्ववत् । चउहि । [चऊओ चउओ] चतुर् । पञ्चमी भ्यस् । 'अन्त्यव्य०' (१।११) लुक् । 'भ्यसस्त्तो-दो०' (३९) भ्यस्० → दो० । अनेन वा दीर्घः - तु० → तू० । 'क-ग-च-ज०' (१।१७७) त-दयोर्लुक् चऊओ । पक्षे-दीर्घ मुक्त्वा शेषं पूर्ववत् । चउओ। [चऊसु चउसु] चतुर् । सप्तमी सुप् । 'अन्त्यव्य०' (१।११) लुक् । अनेन वा दीर्घः । 'क-ग-च-ज०' (१।१७७) त्लुक् चऊसु चउसु ॥१७॥ लुप्ते शसि ॥ ८।३।१८ ॥ इदुतोः शसि लुप्ते दीर्घो भवति ॥ गिरी । बुद्धी । तरू । धेणू पेच्छ । लुप्त इति किम् ? गिरिणो । तरुणो पेच्छ ॥ इदुत इत्येव - वच्छे पेच्छ । 'जस्शस्०' (३।१२) इत्यादिना शसि दीर्घस्य लक्ष्यानुरोधार्थो योगः ॥ लुप्त इति तु णवि प्रतिप्रसवार्थशङ्कानिवृत्त्यर्थम् ।। [लुप्ते शसि] लुप्त सप्तमी ङि। शस् सप्तमी ङि। [गिरी पेच्छ] गिरि । द्वितीया शस् । 'जस्-शसोलुंक (३।४) शस्लोपः । अनेन दीर्घः - रि० → री० गिरी । पेच्छ पूर्ववत् [३।१६] । __ [बुद्धी पेच्छ] बुद्धि । द्वितीया शस् । 'जस्-शसोलुंक्' (३।४) शस्लोपः । अनेन दीर्घः - द्धि० → द्धी० बुद्धी । पेच्छ पूर्ववत् [३।१६] । __ [तरू पेच्छ] तरु । द्वितीया शस् । 'जस्-शसोलुंक्' (३।४) शस्लोपः । अनेन दीर्घः - रु० → रू० तरू । पेच्छ पूर्ववत् [३।१६] । [घेणू पेच्छ] धेनु । द्वितीया शस् । 'जस्-शसोलुंक्' (३।४) शस्लोपः । अनेन दीर्घः - नु० → नू० । 'नो णः' (१।२२८) नू० → णू घेणू । पेच्छ पूर्ववत् [३।१६] । [गिरिणो पेच्छ] गिरि । द्वितीया शस् । 'जस्-शसोर्णो वा' (३।२२) शस्० → णो० गिरिणो । पेच्छ पूर्ववत् [३।१६] । [तरुणो पेच्छ ] तरु । द्वितीया शस् । 'जस्-शसोर्णो वा' (३।२२) शस्० → णो० तरुणो । पेच्छ पूर्ववत् [३।१६] [वच्छे पेच्छ] वृक्ष । द्वितीया शस् । 'ऋतोऽत्' (१।१२६) वृ० → व० । 'छोऽक्ष्यादौ' (२।१७) क्षस्य छः । 'अनादौ०' (२।८९) द्वित्वं - छछ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । 'टाण-शस्येत्' (३।१४) च्छ० → च्छे । 'जस्-शसोलुंक्' (३।४) शस्लुक् वच्छे । पेच्छ पूर्ववत् [३।१६] ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy