________________
अष्टमाध्यायस्य प्रथमः पादः ॥
ङ-त्र-ण-नो व्यञ्जने ॥ ८॥१।२५ ॥ ङ-ब-ण-न इत्येतेषां स्थाने व्यञ्जने परे अनुस्वारो भवति ॥
ङ - पङ्क्तिः → पंती । पराङ्मुखः → परंमुहो । ञ-कञ्चकः → कंचुओ । लाञ्छनम् → लंछणं । ण - षण्मुखः → छंमुहो । उत्कण्ठा → उक्कंठा । न - सन्ध्या → संझा । विन्ध्यः → विंझो ॥
[ङञणनः] ङश्च जश्च णश्च न् च = ङञणन्, तस्य = ङञणनः । षष्ठी ङस् । [व्यञ्जने] व्यञ्जन सप्तमी ङि ।
[पंती] 'पचुङ् व्यक्तीकरणे' (६५७) पच् । 'उदितः स्वरा०' (४।४।९८) नोऽन्तः - पञ्च् । पञ्चनम् । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'च-जः क-गम्' (२।१८६) च्० → क्० । 'म्नां धुड्वर्गे०' (१।३।३९) न० → छ । अनेन डस्य अनुस्वारः । 'क-ग-ट-ड०' (२७७) क्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः - ति० → ती० । 'अन्त्य०' (११११) स्लुक् पंती ।
[परंमुहो] पराङ्मुख । 'हस्वः संयोगे' (१९८४) हस्वः - रा० → र० । अनेन ङस्य अनुस्वारः । 'ख-घ-थ०' (१।१८७) खस्य हः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१२११४) अलुक् परंमुहो।
[कंचुओ] कञ्चक । अनेन अस्य अनुस्वारः । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् कंचुओ।
[लंछणं] लाञ्छन । 'हुस्वः संयोगे' (१८४) हुस्वः - ला० → ल० । अनेन अस्य अनुस्वारः । 'नो णः' (१।२२८) नस्य णः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः लंछणं ।
[छमहो] षण्मुख । 'षट्-शमी-शाव-सुधा-सप्त०' (१।२६५) षस्य छः । अनेन णस्य अनुस्वारः । 'ख-घ-थ०' (१।१८७) खस्य हः । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० छंमुहो ।
[उक्कंठा] उत्कण्ठा । 'क-ग-ट-ड०' (२७७) त्लुक् । 'अनादौ०' (२१८९) कस्य द्वित्वम् । अनेन णस्य अनुस्वारः उधंठा ।
[संझा] सन्ध्या । अनेन नस्य अनुस्वारः । 'साध्वस-ध्य०' (२।२६) ध्या० → झा० । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् संझा।
[विंझो] विन्ध्य । प्रथमा सि । अनेन नस्य अनुस्वारः । 'साध्वस-ध्य०' (२।२६) ध्य० → झ० । 'अतः सेोंः' (३२) सि० → डो० → ओ० विंझो ॥२५॥
वक्रादावन्तः ॥८।१।२६ ॥ वक्रादिषु यथादर्शनं प्रथमादेः स्वरस्य अन्त आगमरूपोऽनुस्वारो भवति ॥
वंकं । तंसं । अंसुं । मंसू । पुंछं । गुंछं । मुंढा । पंसू । बुधं । कंकोडो। कुंपलं । दसणं । विछिओ। गिठी । मंजारो। एष्वाद्यस्य ॥
वयंसो । मणंसी । मणंसिणी । मणंसिला । पडंसुआ । एषु द्वितीयस्य ॥ अवरि । अणिउँतयं । अइमुंतयं । अनयोस्तृतीयस्य ॥