________________
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
वक्र । त्यस्र । अश्रु । श्मश्रु । पुच्छ । गुच्छ । मूर्धन् । पशु । बुध्न । कर्कोट । कुड्मल । दर्शन । वृश्चिक । गृष्टि । मार्जार । वयस्य । मनस्विन् । मनस्विनी ॥ मनःशिला । प्रतिश्रुत् । उपरि । अतिमुक्तक इत्यादि ।
क्वचिच्छन्दःपूरणेऽपि-देवं-नाग-सुवण्ण ॥ क्वचिन्न भवति - गिट्ठी । मज्जारो । मणसिला । मणासिला ॥ आर्षे - मणोसिला । अइमुत्तयं ॥ [वक्रादावन्तः] वक्र आदिर्यस्य सः = वक्रादिस्तस्मिन् = वक्रादौ । अन्त प्रथमा सि ।
[वंकं] वक्र । 'सर्वत्र ल-व०' (२१७९) लुक् । अनेन अनुस्वारः । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः वंकं ।
[तंसं] यस्र । 'सर्वत्र ल-व०' (२।७९) लुक् । 'अधो म-न-याम्' (२।७८) य्लुक् । अनेन अनुस्वारः । प्रथमा सि । 'क्लीबे स्वरा०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः तंसं ।
[अंसुं] अश्रु । 'सर्वत्र ल-व०' (२७९) लुक् । 'श-षोः सः' (१।२६०) शु० →सु० । अनेन अनुस्वारः । प्रथमा सि । 'क्लीबे स्वरा०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः अंसुं । __ [मंसू] श्मश्रु । 'आदेः श्मश्रु-श्मशाने' (२१८६) श्लुक् । 'सर्वत्र ल-व०' (२२७९) लुक् । 'श-षोः सः' (१।२६०) शु० → सु० । अनेन अनुस्वारः । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः - सु० → सू० । 'अन्त्य०' (१।११) स्लुक् मंसू। .
[पुंछं] पुच्छ । 'क-ग-च०' (१।१७७) च्लुक् । अनेन अनुस्वारः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१९२३) अनुस्वारः पुंछ ।
[गुंछं] गुच्छ । 'क-ग-च०' (१।१७७) च्लुक् । अनेन अनुस्वारः । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (११२३) अनुस्वारः गुंछं ।
[मुंढा] मूर्धन् । प्रथमा सि । 'हस्वः संयोगे' (१९८४) हुस्वः - मू० → मु० । 'श्रद्धद्धि - मूर्धा-ऽर्धेऽन्ते वा' (२।४१) र्धस्य ढः । 'पुंस्यन आणो०' (३।५६) इत्यतिदेशात् 'राज्ञः' (३।४९) आत्वम् । अनेन अनुस्वारः । 'अन्त्य०' (१।११) स्लुक् मुंढा।
[पंसू] पशु । 'सर्वत्र०' (२२७६) लुक् । 'श-षोः सः' (१।२६०) शु० → सु० । अनेन अनुस्वारः । प्रथमा सि । 'अक्लीबे सौ' (३३१९) दीर्घः - सु० → सू० । 'अन्त्य०' (१।११) स्लुक् पंसू ।
[बुधं ] बुध्न । 'अधो म-न-याम्' (२।७८) ग्लुक् । अनेन अनुस्वारः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः बुधं । . [कंकोडो] कर्कोट । अनेन अनुस्वारः । 'सर्वत्र०' (२१७९) लुक् । 'टो डः' (१।१९५) ट० → ड० । प्रथमा सि। 'अत: सेर्डोः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् कंकोडो । १. सिद्धे भो ! पयओ णमो जिणमए नंदी सया संजमे । देवनागसुवन्नकिन्नरगणस्सब्भूअभावच्चिए । लोगो जत्थ पइट्ठिओ जगमिणं तेलुक्कमच्चासुरं । धम्मो वड्ढउ सासओ विजयओ धम्मुत्तरं वड्ढउ ।
[आवश्यकसूत्रे पुक्खरवरदीवड्ढे सूत्रे गा० ४] सिद्धाय भोः ! प्रयतो नमो जिनमताय नन्दिः सदा संयमे । देवनागसुवर्णकिन्नरगणसद्भूतभावाऽचिते ॥ लोको यत्र प्रतिष्ठितो जगदिदं त्रैलोक्यमाऽसुरम् । धर्मो वर्धतां शाश्वतो विजयतो धर्मोत्तरं वर्धताम् ।।