________________
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
अजित । द्वितीया अम् । ‘क-ग-च-ज०' (१।१७७) त्लुक् । 'अमोऽस्य' (३५) अलुक् । अनेन अनुस्वारः अजिअं।
पक्षे-उसभमजिअं । अत्र अन्त्यव्यञ्जनेति अमो मस्य लुकि प्राप्तेऽनेन मकारो मस्यैव । 'लोकात्' (११३) उसभमजिअं।
[सक्खं] साक्षात् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । 'हूस्वः संयोगे' (१८४) सा० → स० । 'क्षः खः क्वचित्तु०' (२२३) क्षस्य खः । 'अनादौ०' (२।८९) खस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२९०) पूर्वखस्य कः । 'वाऽव्ययोत्खातादावदातः' (११६७) क्खा० → क्ख० । बहुलाधिकारादनेन अन्यस्याऽपि व्यञ्जनस्य मकारः । अत्र त्० → म् । अनेन अनुस्वारः सक्खं ।
[जं] 'यत् । 'आदेर्यो जः' (१।२४५) य० → ज० । बहुलाधिकारात् त्० → म् । अनेन अनुस्वारः जं । [तं] 'तत् । बाहुलकात् त्० → म्० । अनेन अनुस्वारः तं ।
[वीसुं] विष्वक् । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । 'सर्वत्र ल-व०' (२१७९) व्लुक् । 'ध्वनिविष्वचोरुः' (१५२) ष० → षु० । 'श-षोः सः' (१।२६०) षु० → सु० । 'लुप्तय-र-व-श-ष-सां श-ष-सां दीर्घः' (१।४३) वि० → वी० । बाहुलकात् क्० → म्० । अनेन अनुस्वारः वीसुं ।
[पिहं] पृथक् । 'इदुतौ वृष्ट-वृष्टि-पृथक्-मृदङ्ग-नसके (१११३७) पृ० → पि० । 'पृथकि धो वा' (१।१८८) इति विकल्पेन थस्य धप्राप्तौ पक्षे 'ख-घ-थ-ध०' (१।१८७) धस्य हः । बाहुलकात् क् → म्० । अनेन अनुस्वारः पिहं ।
[सम्मं] सम्यक् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । 'अधो म-न-याम्' (२७८) यलुक् । 'अनादौ०' (२।८९) मस्य द्वित्वम् । बाहुलकात् क् → म्० । अनेन अनुस्वारः सम्म ।
[इहं] इह । सप्तमी ङि । अत्र अव्ययत्वाल्लुकि(पि) प्राप्ते अनेन ङिस्थाने म्० । अनेन अनुस्वारः इहं ।
अथवा प्रकारान्तरेण ऋधक् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । 'इत्कृपादौ' (१।१२८) ऋ० → इ० । 'ख-घ-थ-ध-भाम्' (१।१८७) धस्य हः । अनेन क् → म्० । अनेन अनुस्वारः इहं।।
[इहयं] इहक । सप्तमी ङि । अत्र अव्ययत्वाल्लुकि(पि) प्राप्ते अनेन डिस्थाने म्० । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'अवर्णो०' (१।१८०) अस्य यः । अनेन अनुस्वारः इहयं ।
अथवा प्रकारान्तरेण ऋधकद् । प्रथमा सि । 'अव्ययस्य' (३३२१७) सिलुप् । 'इत्कृपादौ' (१।१२८) ऋ० → इ० । 'ख-घ-थ०' (१२१८७) धस्य हः । अनेन कदो दस्य म्० । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'अवर्णो०' (१।१८०) अस्य यः । अनेन अनुस्वारः इहयं ।
[आलेठुअं] आपूर्व श्लिषंच् आलिङ्गने' (१२१०) श्लिष् । आश्लेषना(णा)य = आश्लेष्टुम् । 'शक-धृष-ज्ञारभ-लभ०' (५।४।९०) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गुण: - श्लि० → श्ले० । 'तवर्गस्य०' (१३१६०) त० → ट० । 'ष्टस्याऽनु०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२१८९) द्वित्वं प्राप्ते 'न दीर्घानुस्वारात्' (२।९२) इति निषेधे 'तैलादौ' (२।९८) द्वित्वप्राप्तौ 'द्वितीय - तुर्ययो०' (२।९०) ठ० → ट० । “विंशत्यादेर्लुक्' (१।२८) अनुस्वारस्य लुक् । 'स्वार्थे कश्च वा' (२।१६४) कप्र० । प्रथमा सि । अनेन म्० - अनुस्वारश्च । 'क-ग-ट-ड०' (२७७) श्लुक् । 'क-ग-च-ज०' (१।१७७) क्लुक् आलेढुंअं ॥२४॥ १. D. यद् । सि । 'अनतो लुप्' (१।४।५९) सेर्लुप् । अव्यये वा संस्कृतसिद्धे अनेन बाहुलकात् दस्य म् । 'आदेर्यो जः' (१।२४५) य० → ज० । २. D. तद् । सि । 'अनतो लुप्' (१।४।५९) सेर्लुप् । अव्यये वा संस्कृतसिद्धे अनेन बाहुलकात् दस्य म् ।