________________
अष्टमाध्यायस्य प्रथमः पादः ॥
१७
→ णु० । 'अन्त्य०' (१।११) ष्लुक् । 'अक्लीबे सौ' (३३१९) दीर्घः - णु० → णू० । 'अन्त्य०' (१।११) स्लुक् धणू॥२२॥ .
मोऽनुस्वारः ॥ ८।१।२३ ॥ अन्त्यमकारस्य अनुस्वारो भवति ॥ जलं फलं वच्छं गिरिं पेच्छ । क्वचिद् अनन्त्यस्याऽपि - वणम्मि वर्णमि ॥ [मोऽनुस्वारः] म् षष्ठी ङस् । अनुस्वार प्रथमा सि ।
[जलमत्थि ] जल । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । अनेन अनुस्वारः जलमत्थि । .. [फलमत्थि ] फल । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । अनेन अनुस्वारः फलमत्थि ।
[वच्छं पेच्छ] वृक्ष । 'ऋतोऽत्' (१११२६) वृ० →व० । 'क्षः खः क्वचित्तु०' (२॥३) क्षस्य छः । 'अनादौ०' (२१८९) छस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वछस्य च: । द्वितीया अम् । 'अमोऽस्य' (३५) अलुक् । अनेन अनुस्वारः वच्छं।
'दृशं प्रेक्षणे' (४९५) दृश् । पञ्चमी हि । 'दृशो निअच्छ-पेच्छा-ऽवयच्छा०' (४।१८१) दृश् → पेच्छ० । 'दु-सुमु विध्यादिष्वेकस्मिस्त्रयाणाम्' (३।१७३) हि० → सु० । 'अत इज्जस्विज्जहीज्जे-लुको वा' (३।१७५) सुलुक पेच्छ ।
[गिरि पेच्छ] गिरि । द्वितीया अम् । 'शेषेऽदन्तवत्' (३।१२४) इत्युक्तत्वात् 'अमोऽस्य' (३।२५) अलुक् । अनेन अनुस्वारः गिरिं । पेच्छ पूर्ववत् ।
[वणम्मि वणंमि] वन (२) । सप्तमी ङि । 'डे-म्मि डे:' (३।११) ङि० → म्मि० । 'नो णः' (१।२२८) न० → ण० । क्वचिदनन्त्यस्याऽप्यनेन मकारस्य अनुस्वारः वणम्मि वर्णमि ॥२३॥
वा स्वरे मश्च ॥ ८॥२४॥ अन्त्यमकारस्य स्वरे परेऽनुस्वारो वा भवति । पक्षे-लुगपवादो मस्य मकारश्च भवति ॥
वंदे उसहं(भं) अजिअं । उसभमजिअं च वंदे । बहुलाधिकारादन्यस्यापि व्यञ्जनस्य मकारः । साक्षात् → सक्खं । यत् → जं । तत् → तं । विष्वक् → वीसुं । पृथक् → पिहं । सम्यक् → सम्मं । इहं । इहयं । आलेठुअं इत्यादि ।
[वा स्वरे मश्च] वा प्रथमा सि । स्वर सप्तमी ङि । म् षष्ठी ङस् । च प्रथमा सि ।
[वंदे उस भं) अजिअं, उसभमजिअं च वंदे] 'वदुङ् स्तुत्यभिवादनयोः' (७२१) वद् । 'उदितः स्वरा०' (४।४।९८) नोऽन्तः - वन्द । वर्त्तः ए । 'कर्त्तर्य०' (३।४/७१) शवप्र० → अ । 'लुगस्या०' (२।१।११४) अलुक् । 'ङ -ब-ण' (१।२५) न्० → अनुस्वारः वंदे ।
ऋषभ । द्वितीया अम् । 'उदृत्वादौ' (१२१३१) ऋ० →उ० । 'श-षोः सः' (१२६०) ष० → स० । 'ख-घ-थ०' (१।१८७) भ० → ह० । 'अमोऽस्य' (३.५) अलुक् । अनेन वा अनुस्वारः उसहं। १. दुण्ढिकाकारमते जलं-फलमत्थि । G. जलं-फलं पेच्छ । L. जलमत्थि-पेच्छ । फलं पेच्छ । २. वंदे उसभं अजिअं संभवमभिणंदणं सुमति सुप्पभ सुपासं । ससि पुष्पदंत सीयल सिज्जंसं वासुपुज्जं च ॥
[नन्दीसूत्रे सुत्तं ३ - तित्थयरावलिआ - गा० १८] उसभमजिअं च वंदे संभवमभिणंदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥
[आवश्यकसूत्रे चतुर्विंशतिस्तवे गा० २] ऋषभमजितं च वन्दे सम्भवमभिनन्दनं च सुमतिं च । पद्मप्रभं सुपार्श्व जिनं च चन्द्रप्रभ वन्दे ॥