SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [दिक्प्रावृषोः सः] दिक्-प्रावृष् षष्ठी ओस् । स प्रथमा सि । [दिसा ] 'दिक् । अनेन क० → स० । 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक दिसा। [पाउसो] प्रावृष् । 'प्रावृट-शरत्तरणयः पुंसि' (१।३१) पुंस्त्वम् । अनेन षस्य सः । 'उदृत्वादौ' (११३१) वृ० → वु० । 'क-ग-च-ज०' (१।१७७) व्लुक् । 'सर्वत्र ल-व०' (२१७९) लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० पाउसो ॥१९॥ आयुरप्सरसोर्वा ॥ ८।१।२० ॥ एतयोरन्त्यव्यञ्जनस्य सो वा भवति ॥ दीहाउसो दीहाऊ । अच्छरसा अच्छरा ॥ [आयुरप्सरसोर्वा ] आयुरप्सरस् षष्ठी ओस् । वा प्रथमा सि । [दीहाउसो दीहाऊ] दीर्घ-आयुस् । दीर्घ आयुरस्य = दीर्घायुः । 'सर्वत्र०' (२७९) लुक् । 'ख-घ-थ-ध०' (१।१८७) घस्य हः । 'क-ग-च-ज०' (१।१७७) यलुक् । अनेन वा स्० → स्० । प्रथमा सि । 'स्नमदाम०' (१।३२) पुंस्त्वम् । 'अतः सेझैः' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अन्त्यस्वरादिलोपः दीहाउसो । पक्षेदीर्घायुस् । 'सर्वत्र०' (२।७९) लुक् । 'ख-घ-थ०' (१।१८७) घस्य हः । 'क-ग-च-ज०' (१।१७७) यलुक् । 'अन्त्य०' (१।११) स्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः - उ० → ऊ० । 'अन्त्य०' (१।११) स्लुक् दीहाऊ । [अच्छरसा अच्छरा] अप्सरस् । अनेन वा स्० → स्० । "आत्' (२।४।१८) आप्प्र० → आ । 'हस्वात् थ्य-श्चत्स-प्सामनिश्चले' (२०२१) प्सस्य छः । 'अनादौ०' (२१८९) छस्य द्वित्वम् । 'द्वितीय - तुर्ययो०' (२।९०) पूर्वछस्य चः। प्रथमा सि । 'अन्त्य०' (१।११) स्लुक अच्छरसा । पक्षे-अप्सरस् । 'अन्त्यव्य०' (१२११) स्लुक् । 'आत्' (२।४।१८) आपप्र० →आ । शेषं पूर्ववत् अच्छरा ॥२०॥ ककुभो हः ॥ ८।१।२१ ॥ ककुभूशब्दस्य अन्त्यव्यञ्जनस्य हो भवति ।। कउहा ।। [ककुभो हः] ककुभ् षष्ठी ङस् । ह प्रथमा सि । [कउहा] ककुभ् । “क-ग-च-ज०' (१११७७) क्लु क् । अनेन भस्य हः । 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् कउहा ॥२१॥ धनुषो वा ॥ ८।१।२२ ॥ धनुःशब्दस्य अन्त्यव्यञ्जनस्य हो वा भवति ॥ धणुहं धणू ॥ [धनुषो वा] धनुष् षष्ठी ङस् । वा प्रथमा सि । [धणुहं धणू] धनुष् । प्रथमा सि । 'नो णः' (११२२८) नु० →णु० । अनेन वा षस्य हः । 'स्नमदाम-शिरो०' (१।३२) इति पुंस्त्वप्राप्तौ 'गुणाद्याः क्लीबे वा' (१।३४) इति पुं-नपुंसकता । बाहुलकात् क्लीबत्वे 'क्लीबे स्वरान्म् से:' (३२५) सि० → म् । 'मोऽनुस्वारः' (१९२३) अनुस्वारः धणुहं । पक्षे-धनुष् । प्रथमा सि । 'नो णः' (१।२२८) नु० १. G. दिश् । 'ऋत्विज्-दिश्' (२।१।६९) इत्यादिना दिग् । २.G. पा० पक्षे-स्त्रियामादविद्युतः (१।१५) इति स → आ -ख० ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy