________________
अष्टमाध्यायस्य प्रथमः पादः ॥
[संपआ ] संपत् । अनेन त्० → आ० । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् संपआ । बहुलाधिकाराद् ईषत्स्पृष्टतरे वाक्ये यस्य श्रुतिरपि[सरिया] सरित् । अनेन त्० → आ० । 'अवर्णो यश्रुतिः' (१।१८०) आ० → या० सरिया । [पाडिवया] प्रतिपत् । अनेन त्० → आ० । 'अवर्णो०' (१९८०) आ० → या० । शेषं पूर्ववत् । पाडिवया । [संपया] संपत् । अनेन त्० → आ० । 'अवर्णो०' (१।१८०) आ० → या० संपया ।
[विज्जू] विद्युत् । 'द्य-य्य-यां जः' (२।२४) धु० → जु० । 'अनादौ०' (२।८९) जस्य द्वित्वम् । 'अन्त्यव्य०' (१।११) त्लुक् । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः - ज्जु० → ज्जू० । 'अन्त्यव्य०' (१।११) स्लुक् विज्जू ॥१५॥
रोरा ॥८॥१६॥ स्त्रियां वर्तमानस्य अन्त्यस्य रेफस्य रा इत्यादेशो भवति ॥ आत्वाऽपवादः (१।१५) ॥ गिरा । धुरा । पुरा ॥ [रो रा] र् षष्ठी ङस् । रा प्रथमा सि । [गिरा] गिर् । प्रथमा सि । अनेन रस्य रा । 'अन्त्यव्य०' (११११) स्लुक् गिरा । [धुरा] धुर् । प्रथमा सि । अनेन रस्य रा । 'अन्त्यव्य०' (१।११) स्लुक् धुरा । [पुरा] पुर् । प्रथमा सि । अनेन रस्य रा । 'अन्त्यव्य०' (१२११) स्लुक् पुरा ॥१६॥
क्षुधो हा ॥ ८।१।१७ ॥ क्षुधशब्दस्य अन्त्यव्यञ्जनस्य हाऽऽदेशो भवति ॥ छुहा ।। [क्षुधो हा ] क्षुध् षष्ठी ङस् । हा प्रथमा सि ।
[छुहा ] क्षुध् । अनेन ध० → हा० । प्रथमा सि । छोऽक्ष्यादौ' (२।१७) क्षु० → छु० । खबाधनार्थं छकारः । 'अन्त्यव्य०' (१२११) स्लुक् छुहा ॥१७॥
शरदादेरत् ॥८।१।१८ ॥ शरदादेरन्त्यव्यञ्जनस्य अत् भवति । शरद् → सरओ । भिषक् → भिसओ । [शरदादेरत्] शरदादि षष्ठी ङस् । अत् प्रथमा सि ।
[सरओ] शरत्(द) । प्रथमा सि । 'श-षोः सः' (१२६०) श० → स० । अनेन त०(द०) → अ० । 'प्रावृट्शरत्तरणयः पुंसि' (१।३१) पुंस्त्वम् । 'अत: सेर्डोः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् सरओ।
[भिसओ] भिषक् । प्रथमा सि । 'श-षोः सः' (१।२६०) ष० → स० । अनेन कस्य अ० । 'अतः सेझैः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१११४) अलुक् भिसओ ॥१८॥
दिक् - प्रावृषोः सः ॥ ८।१।१९ ॥ एतयोरन्त्यव्यञ्जनस्य सो भवति ॥ दिसा । पाउसो ॥
१.C. राः ।