________________
३०४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[वैतत्तदः] वा प्रथमा सि । एतत्तद् पञ्चमी ङसि ।
[एसो एस] एतद् । प्रथमा सि । 'अन्त्यव्य०' (२२८९) द्लुक् । 'तदश्च तः सोऽक्लीबे' (३८६) त० → स० । अनेन वा सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् एसो । पक्षे- एतद् । 'अन्त्य०' (१।११) स्लुक्द्लुक् च । 'तदश्च तः सोऽक्लीबे' (३।८६) त० → स० एस ।
[सो णरो स णरो] तद् । प्रथमा सि । 'अन्त्यव्य०' (१।११) लुक् । 'तदश्च०' (३।८६) त० → स० । अनेन वा सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् सो । नर । प्रथमा सि । 'वाऽऽदौ' (१२२२९) न० →ण। 'अत: से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१२११४) अलुक् णरो ॥३॥
जस्-शसोलुंक् ॥ ८।३।४ ॥ अकारान्तान्नाम्नः परयोः स्यादिसम्बन्धिनोर्जस्-शसोलुंग भवति ॥ वच्छा एए । वच्छे पेच्छ ॥ [जस्-शसोलुंक्] जस्-शस् षष्ठी ओस् । लुक् प्रथमा सि ।।
[वच्छा एए] वृक्ष । 'ऋतोऽत्' (१।१२६) वृ० → व० । 'छोऽक्ष्यादौ' (२।१७) क्ष० → छ । 'अनादौ०' (२।८९) द्वित्वं-छ्छ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । प्रथमा जस् । 'जस्-शस्-ङसि-त्तो-दो-द्वामि-दीर्घः' (३।१२) च्छ० → च्छा० । अनेन जस्लुक् वच्छा।
एते । 'क-ग-च-ज०' (१२१७७) त्लु क् एए ।
[वच्छे पेच्छ ] वृक्ष । द्वितीया शस् । 'टाण शस्येत्' (३।१४) एकारः । शेषं पूर्ववत् । वच्छे । ___'दृशं प्रेक्षणे' (४९५) दृश् । पञ्चमी हि । 'दृशो निअच्छ-पेच्छा-ऽवयच्छा०' (४।१८१) दृश् → पेच्छ० । 'दु-सुमु विध्यादि०' (३।१७३) हि० → सु० । 'अत इज्जस्विज्जहीज्जे-लुको वा' (३।१७५) सु० → लुक्० पेच्छ ॥४॥
अमोऽस्य ॥ ८३५ ॥ अत: परस्याऽमोऽकारस्य लुग् भवति ॥ वच्छं पेच्छ । [अमोऽस्य] अम् षष्ठी ङस् । अ षष्ठी ङस् ।
[वच्छं पेच्छ] वृक्ष । द्वितीया अम् । 'ऋतोऽत्' (१२१२६) वृ० →व० । 'छोऽक्ष्यादौ' (२।१७) क्ष० → छ । 'अनादौ०' (२१८९) द्वित्वं-छ्छ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । अनेन अम्० →म्० । 'मोऽनुस्वारः' (१९२३) अनुस्वारः वच्छं । पेच्छ इति पूर्ववत् [८।३।४]॥५॥
टा-आमोर्णः ॥ ८॥३६॥ अत: परस्य टा इत्येतस्य षष्ठीबहुवचनस्य च आमो णो भवति ॥ वच्छेण । वच्छाण ॥ [टा-आमोर्णः] टा-आम् षष्ठी ओस् । ण प्रथमा सि ।
[वच्छेण ] वच्छ पूर्ववत् । तृतीया टा । अनेन टा० → ण । 'टाण-शस्येत्' (३।१४) एकारः -च्छ० → च्छे० वच्छेण ।
[वच्छाण] वच्छ पूर्ववत् । षष्ठी आम् । 'जस्-शस्-ङसि-त्तो-दो-द्वामि दीर्घः' (३।१२) च्छ० → च्छा० । अनेन आम्० →ण वच्छाण ॥६॥