________________
अष्टमाध्यायस्य तृतीयः पादः ॥
३०५
भिसो हि-हि-हिं ॥८॥३७॥
अतः परस्य भिसः स्थाने केवल:-सानुनासिकः-सानुस्वारश्च हिर्भवति ॥ वच्छेहि वच्छेहिँ वच्छेहिं कया छाही ॥ [भिसो हि-हिँ-हिं] भिस् षष्ठी ङस् । हि-हिँ-हिं प्रथमा सि ।
[वच्छेहि वच्छेहिँ वच्छेहिं कया छाही ] वृक्ष । तृतीया भिस् । 'ऋतोऽत्' (१।१२६) वृ० → व० । 'छोऽक्ष्यादौ' (२।१७) क्ष० → छ० । 'अनादौ०' (२।८९) द्वित्वं-छ्छ । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । अनेन भिस्० → हि-हि-हिं । 'भिस्-भ्यस्-सुपि' (३।१५) वच्छ० → वच्छे० - वच्छेहि वच्छेहि वच्छेहिं ।
कृता । 'ऋतोऽत्' (१२१२६) कृ० → क० । 'क-ग-च-ज०' (१२१७७) तलुक् । 'अवर्णो यश्रुतिः' (१२१८०) आ० → या० कया ।
छाया । 'छायायां होऽकान्तौ वा' (१२४९) या० → हा० । 'छाया-हरिद्रयोः' (३।३४) ङीप्र० → ई० । 'लुक् (१।१०) आलोपः । 'लोकात्' (११३) छाही । प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् छाही ||७||
डसेस्तो-दो-दु-हि-हिन्तो-लुकः ॥ ८॥३८ ॥ अतः परस्य ङसे: त्तो-दो-दु-हि-हिन्तो-लुक् इत्येते षडादेशा भवन्ति ।। वच्छत्तो । वच्छाओ । वच्छाउ । वच्छाहि । वच्छाहिन्तो । वच्छा ॥ दकारकरणं भाषान्तरार्थम् ।। [ङसेः त्तो-दो-दु-हि-हिन्तो-लुकः] ङसि षष्ठी ङस् । त्तो-दो-दु-हु-हिन्तो-लुक् प्रथमा जस् ।
[वच्छत्तो] वृक्ष । पञ्चमी ङसि । 'ऋतोऽत्' (१।१२६) वृ० → व० । 'छोऽक्ष्यादौ' (२०१७) क्ष० → छ । 'अनादौ०' (२१८९) द्वित्वं-छ्छ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । अनेन ङसि० → त्तो० । 'जस्-शस्ङसि०' (३।१२) दीर्घः - च्छ० → च्छा०' । 'हुस्वः संयोगे' (१९८४) च्छा० → च्छ० वच्छत्तो ।
[वच्छाओ] वच्छ । पञ्चमी ङसि । अनेन ङसि० → दो० । 'जस्-शस्-ङसि-तो-दो०' (३।१२) च्छ० → च्छा० । 'क-ग-च-ज०' (१११७७) द्लुक् वच्छाओ।
[वच्छाउ] वच्छ । पञ्चमी ङसि । अनेन ङसि० → दु० । 'जस्-शस्-ङसि०' (३।१२) च्छ० → च्छा० । 'क-गच-ज०' (१।१७७) द्लुक् वच्छाउ ।
[वच्छाहि] वच्छ । पञ्चमी ङसि । अनेन ङसि० → हि० । 'जस्-शस्-ङसि०' (३।१२) च्छ० → च्छा० वच्छाहि।
[वच्छाहिन्तो] वच्छ । पञ्चमी ङसि । अनेन ङसि० → हिन्तो० । 'जस्-शस्-ङसि०' (३।१२) च्छ० → च्छा० वच्छाहिन्तो। [वच्छा] वच्छ । पञ्चमी ङसि । 'जस्-शस्-ङसि०' (३।१२) च्छ० → च्छा० । अनेन ङसिलुक् वच्छा ।।८।।
भ्यसस्त्तो-दो-दु-हि-हिन्तो-सुन्तो ॥ ८।३।९ ॥ अतः परस्य भ्यसः स्थाने त्तो-दो-दु-हि-हिन्तो-सुन्तो इत्यादेशा भवन्ति । वृक्षेभ्यः - वच्छत्तो । वच्छाओ । वच्छाउ । वच्छाहि वच्छेहि । वच्छाहिन्तो वच्छेहिन्तो । वच्छासुन्तो वच्छेसुन्तो ॥ [भ्यसः] भ्यस् षष्ठी डस् ।
r