________________
॥ अहम् ॥ ॥ नमो नमः श्रीगुरुनेमिसूरये ॥
बृहत्तपागच्छीय-श्रीउदयसौभाग्यगणिविरचितया व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थितं सिद्धहेमप्राकृतव्याकरणम् ॥
॥ अथ अष्टमाध्यायस्य तृतीयः पादः ॥
वीप्स्यात् स्यादेर्वीप्स्ये स्वरे मो वा ॥ ८॥३१॥ वीप्सार्थात् पदात् परस्य स्यादेः स्थाने वीप्सार्थे पदे परे मो वा भवति ॥ एकैकम् । एक्कमेक्कं । एक्कमेक्केण । अङ्गे अने । अङ्गमङ्गम्मि । पक्षे - एक्केक्कमित्यादि । [वीप्स्यात् ] वीप्सा(प्स्य) पञ्चमी ङसि । [स्यादेवीप्स्ये] स्यादि षष्ठी ङस् । वीप्सा(प्स्य) सप्तमी ङि । [स्वरे मो वा] स्वर सप्तमी ङि । म प्रथमा सि । वा प्रथमा सि ।
[एक्कमेक्वं] एक । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः । अग्रे एक । अनेन वा म् । 'सेवादौ वा' (२।९९) कस्य द्वित्वं एक्कमेक्क० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१२३) अनुस्वारः एक्कमेक्कं ।
[एक्कमेक्केण ] एक्कमेक्क पूर्ववत् । तृतीया टा । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३३१४) क्क० → के० एक्कमेक्केण ।
[अङ्गमङ्गम्मि] अङ्ग । सप्तमी ङि । 'डे-म्मि डे:' (३।११) ङि० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अलुक् अङ्गे । अनेन ङि० → म्० । 'लोकात्' (१।१।३) अङ्गमङ्ग इति जाते 'डे-म्मि .:' (३.११) ङि० → म्मि० । अङ्गमङ्गम्मि । पक्षे
[एक्कक्कं] एकैक । “ऐत एत्' (३।१४८) कै० → के० । 'सेवादौ वा' (२।९९) द्वयोः कयोद्वित्वम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः एक्कक्कं ॥१॥
अतः सेझैः ॥ ८॥३॥२॥ अकारान्तानाम्नः परस्य स्यादेः सेः स्थाने डो भवति ॥ वच्छो । [अतः से?:] अत् पञ्चमी ङसि । सि षष्ठी ङस् । डो प्रथमा सि ।
[वच्छो] वृक्ष । प्रथमा सि । 'ऋतोऽत्' (१२१२६) वृ०व० । 'छोऽक्ष्यादौ' (२०१७) क्ष० →छ । 'अनादौ०' (२।८९) द्वित्वं-छ्छ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । अनेन सि० → डो० → ओ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् वच्छो ॥२॥
वैतत्तदः ॥८।३।३ ॥ एतत्तदोरकारात् परस्य स्यादेः से? वा भवति ॥ एसो । एस ॥ सो णरो । स णरो ॥