________________
२९४
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
खेदे - अव्वो न जामि छित्तं ॥ विषादे - अव्वो नासेन्ति दिहिं पुलयं वड्ढेन्ति दिन्ति रणरणयं ।
एण्हि तस्सेअ गुणा ते च्चिअ अव्वो कह णु एअं ॥३॥ पश्चात्तापे - अव्वो तह तेण कया अहयं जह कस्स साहेमि ॥ [अव्वो] अव्वो प्रथमा सि । [सूचनादुःखसम्भाषणाऽपराधविस्मयाऽऽनन्दाऽऽदरभयखेदविषादपश्चात्तापे] सूचनादौ समाहारद्वन्द्वात् सप्तमी । अव्वो दुक्करकारय ! पुणो वि तत्तिं करेसि गमणस्स । अज्ज वि न हुंति सरला वेणीइ तरंगिणो चिहुरा ।।
अस्यार्थः - अव्वो सूचनायाम् । हे दुष्करकारक! पुनरपि गमनस्य तत्ति-विचारं करोषि ? । वेण्याश्चिकुरास्तरङ्गिणो वक्रा अद्यापि सरला न भवन्ति ।
कोऽर्थः ? - पूर्वं कस्याश्चिदपि नायिकायाः भर्ता चलितः । स बहुभिदिनैः समागतः, ततस्तया 'वेणीदडस्छोटितः । भर्ता च पुनरपि चलनवार्ता कृता । ततः कान्तयोच्यते - हे भर्तः ! वेणीकेशाः अद्यापि सरला न भवन्ति, ततश्चलनवार्ता कुर्वाणोऽसि ? । अहो दुष्करकारित्वमिति सूच्यते इति भावार्थो गाथार्थश्च ।
[अव्वो दुक्करकारय !] दुष्करकारक!। 'निर्दुरोर्वा' (१११३) लुक् । 'अनादौ शेषाऽऽदेशयोद्वित्वम्' (२८९) कस्य द्वित्वं - क० → क्क० । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । आमन्त्रणे प्रथमा सि । दुक्करकारय !।
[अव्वो दलन्ति हिअयं] 'दल विशरणे' (४१३) दल् । वर्त० अन्ति । 'लोकात्' (१।१।३) दलन्ति । हृदय । 'इत् कृपादौ' (१।१२८) ह० → हि० । 'क-ग-च-ज०' (१।१७७) लुक् हिअयं ।
[अव्वो किमिणं किमिणं] किम् । प्रथमा सि । 'किम: किम्' (३।८०) सिना सह किम्० → किम् । इदम् । प्रथमा सि । 'क्लीबे स्यमेदमिणमो च' (३।७९) सिना सह इदम् → इणम् । 'लोकात्' (१।११३) इणम् । 'वा स्वरे मश्च' (१।२४) म्० । 'मोऽनु०' (१९२३) अनुस्वारः किमिणं (२)।
[अव्वो हरन्ति हिअयं......]
अस्या व्याख्या - अव्वो इति अपराधे । धूर्ता हृदयं हरन्ति युवतीनां, द्वेष्या न भवन्ति । अव्वो इति विस्मये । धूर्ताः किमपि रहस्यं जानन्ति । किविशिष्टा धूर्ताः ? जनेभ्योऽधिका-जनाभ्यधिकाः इति गाथार्थः ।
अथ व्युत्पत्तिः - 'हंग् हरणे' (८८५) ह । वर्त० अन्ति । 'बहुषु न्तु-ह-मो' (३।१७६) (?) ('बहुष्वाद्यस्य न्ति-न्तेइरे' (३३१४२) अन्ति० → न्ति०) । 'ऋवर्णस्या०' (४।२३४) ह० → हर० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लुक् (१।१०) अलुक् । 'लोकात्' (१।१३) हरन्ति ।
१. [शृ० प्र० - ११२२८ - १५।२५२ । गा० को० - ३३२२ । स० क० - ५।२९१ । गा० स० - ३।७३]
अहो दुष्करकारक ! पुनरपि चिन्तां करोषि गमनस्य ।
अद्यापि न भवन्ति सरला वेण्यास्तरङ्गिणश्चिकुराः ॥ २. पाठां० - गा० स० - शृ० प्र० - स० क० - दुक्करआरअ ! । गा० को० - दुक्करयारय ! | ३. E. वेणीदण्ड ।