SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य द्वितीयः पादः ॥ २९३ विकल्पे तु उतादेशेनैवौकारेण सिद्धम् । 'ओ विरएमि नहयले ।। [ओ सूचनापश्चात्तापे] ओ प्रथमा सि । सूचना च पश्चात्तापश्च = सूचनापश्चात्तापम्, तस्मिन् = सूचनापश्चात्तापे । सप्तमी ङि । [ओ अविणयतत्तिल्ले ! ] अविनयतप्तिर्विद्यते यस्याः सा = अविनयतप्तिमत् । तदस्याऽस्त्य०' (७२।१) मतुप्र० → मत् । प्रथमा सि । 'आल्विल्लोल्लाल-वन्त-मन्तेत्तेर-मणा मतोः' (२।१५९) मत्० → इल्ल आदेशः । 'लुक् (१।१०) इलोपः - प्ति० → स्० । 'लोकात्' (१।२३) तप्तिल्ल० । 'आत्' (२।४।१८) आप्प्र० → आ । 'वाप ए' (३।४१) ल्ला० → ल्ले० । 'अन्त्यव्य०' (१।११) स्लुक् । 'नो णः' (१।२२८) न० → ण । 'क-ग-ट-ड०' (२७७) प्लुक् । 'अनादौ०' (२१८९) तस्य द्वित्वं-ति० → त्ति० अविणयतत्तिल्ले !। [ओ न मए छाया इत्तिआए] अस्मद् । तृतीया टा । 'मि-मे-ममं-ममए-ममाइ०' (३।१०९) टेन सह अस्मद् → मए० । छाया ! प्रथमा सि । 'अन्त्यव्य०' (१।११) स्लुक् छाया । एतावत् । 'यत्तदेतदोऽतोरित्तिअ एतल्लुक्च ' (२।१५६) एतावत् → इत्तिआ इत्यादेशः । सप्तमी ङि । 'टा-ङस् उ०' (३।२९) ङि० → ए० इत्तिआए । एतावत्यां वेलायां न ज्ञाता इत्यर्थः । उकारो विकल्पार्थे वर्तते, परंतु 'अवापोते' (१२१७२) इत्यनेन उतस्य ओ इत्यादेशेनैव विकल्पार्थः सिद्ध एव । [ओ विरएमि नहयले] 'रचण् प्रयत्ने' (१८५३) रच, विपूर्व० । 'चुरादिभ्यो णिच् (३।४।१७) णिचप्र० । वर्त० → मिव् । 'तृतीयस्य मि:' (३१४१) मिव्० → मि० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'णेरदेदावावे' (३।१४९) णि → ए० । 'क-ग-च-ज०' (१।१७७) च्लुक् विरएमि । नभस्तल । 'ख-घ-थ०' (१।१८७) भ० → ह० । 'क-ग-ट-ड०' (२।७७) स्लु क् । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । सप्तमी ङि । 'डे-म्मि .' (३।११) ङि० → डे० → ए० । 'डित्यन्त्य०' (२।१।११४) अलुक् नहयले ॥२०३।। अव्वो सूचना-दुःख-सम्भाषणा-ऽपराध-विस्मया-ऽऽनन्दा-ऽऽदर भय-खेद-विषाद-पश्चात्तापे ॥ ८।२।२०४ ॥ अव्वो इति सूचनादिषु प्रयोक्तव्यम् ॥ सूचनायाम् - अव्वो दुक्करकारय ! ॥ दुःखे-अव्वो दलन्ति हिअयं ॥ सम्भाषणे-अव्वो किमिणं किमिणं ॥ अपराध-विस्मययोः - अव्वो हरन्ति हिअयं तह वि न वेसा हवन्ति जुवईण । अव्वो कि पि रहस्सं मुणन्ति धुत्ता जणब्भहिआ ॥१॥ आनन्दा-ऽऽदर-भयेषु - अव्वो सुपहायमिणं अव्वो अज्जम्ह सप्फलं जी। अव्वो अइअम्मि तुमे नवरं जइ सा न जूरिहिइ ॥२॥ १. ओ विरएमि णहअले तुरिअपहाविअपवंगसंचरणसहं । अणुपरिवाडिपरिट्ठिअघणकूडघडंतमहिहरं सेउवहं ॥ [से० ब० - ८।२४] उत विरचयामि नभस्तले त्वरितप्रधावितप्लवङ्गसंचरणसहम् । अनुपरिपाटीपरिस्थितघनकूटघटमानमहीधरं सेतुपथम् ॥ २. K. अविनयेन तृप्तिर्विद्यते यस्याः सा । पा० म० - तृप्ति० → तत्तिः ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy