________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२८३
[णाई करेमि रोसं] णाई । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् णाई। ___ 'डुइंग् करणे' (८८८) कृ । वर्तमाना मिव् । 'तृतीयस्य मिः' (३।१४१) मिक्० → मि० । 'ऋवर्ण०' (४।२३४) कृ० → कर० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१२१२३) करमि । 'वर्तमाना-पञ्चमी-शतषु वा' (३।१५८) र० → रे० करेमि ।
रोष । प्रथमा सि । 'श-षोः सः' (१।२६०) ष० → स० । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः रोसं । अहं रोषं न करोमीत्यर्थः ॥१९०॥
माई माऽर्थे ॥ ८।२।१९१ ॥ माई इति माऽर्थे प्रयोक्तव्यम् ॥ माइं काहीअ रोसं ॥ मा कार्षीद् रोषम् ।। [माई माऽर्थे ] माई प्रथमा सि । माऽर्थ सप्तमी ङि।
[माइं काहीअ रोसं] माई निषेधे । 'डुळंग करणे' (८८८) कृ । अद्यतनी दि । 'सी-ही-हीअ भूतार्थस्य' (३।१६२) दि० → हीअ० आदेशः । 'आ: कृगो भूत०' (४।२१४) कृ० → का० काहीअ ।
रोष । 'श-षोः सः' (११२६०) ष० → स० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (११२३) अनुस्वारः रोसं । रोषं मा कार्षीदित्यर्थः ॥१९१||
हद्धी निर्वेदे ॥८।२।१९२ ॥ हद्धी इत्यव्ययमत एव निर्देशात् हा - धिक् शब्दादेशो वा निर्वेदे प्रयोक्तव्यम् ॥ हद्धी ! हद्धी ! हा ! धाह धाह || [हद्धी निर्वेदे] हद्धी प्रथमा सि । निर्वेद सप्तमी ङि । [हद्धी ! हद्धी !] हा-धिक् 'असकृत् सम्भ्रमे' (७।४।७२) द्वित्वम् । अनेन हद्धी इत्यादेशः हद्धी ! हद्धी !। [हा ! धाह धाह] हा ! प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् हा !।
'धावूग् गति-शुद्ध्योः ' (९२०) धाव् । पञ्चमी त । 'बहुषु न्तु-ह-मो' (३६१७६) त० → ह० । 'खाद-धावोर्लुक् (४।२२८) व्लुक् । 'भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमबादेः' (७४/७३) द्विः धाह धाह ॥१९२।।
वेव्वे भय-वारण-विषादे ॥ ८।२।१९३ ॥ भय-वारण-विषादेषु वेव्वे इति प्रयोक्तव्यम् ॥ वेव्वे त्ति भये वेव्वे त्ति वारणे जूरणे अ वेव्वे त्ति । उल्लाविरीइ वि तुहं वेव्वे त्ति मयच्छि ! किं णेअं ॥१॥ किं उल्लावेन्तीए उअ जूरन्तीए किं तु भीआए । उव्वाडिरीए वेव्वे त्ति तीए भणिअंन विम्हरिमो ॥२॥
१. णाई करेमि रोसं चिंतिअकरणेण तस्स मणखेअं । कायव्वेसु कुणंती नो जाणं कत्थ वच्चिस्सं ॥ [अनु० अङ्क:-६६]
न करोमि रोषं चिंतितकरणेन तस्य मन:खेदम् । कर्तव्येषु कुर्वन्ती न जानामि कुत्र व्रजिष्यामि ॥ २. G. माईं।