________________
व्युत्पत्तिदीपिकाभिधान- दुण्डिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[ वेव्वे भयवारणविषादे ] वेव्वे प्रथमा सि । भयं च वारणं च विषादश्च = भयवारणविषादम्, तस्मिन् ।
[ वेव्वे त्ति भये वेव्वे त्ति वारणे.......]
अस्यार्थः - हे मृगाक्षि ! तव वेव्वे त्ति इति उल्लापयत्याः मया किं ज्ञेयम् ? । वेव्वे इति शब्दो भये वत्तते, वेव्वे इति वारणे च वत्तते, वेव्वे इति जूरणे च विषादे वर्त्तते । अत्र वेव्वे इति शब्देन त्वया किमुक्तं ?, मया न ज्ञायते इत्यर्थः । वेव्वे । प्रथमा सि । ‘अव्ययस्य' (३।२।७) सिलुप् । इति । 'इते: स्वरात् तश्च द्विः' (१४२) वेव्वे त्ति ।
त्ति०
इलुक्
२८४
भय । सप्तमी ङि । वारण । सप्तमी ङि । 'डे-म्मि ङे:' (३|११) ङि०डे० ए० । 'डित्यन्त्य० ' (२|१|११४) अलुक् भये वारणे ।
"खिदिच् परितापे' (१२५९) खिद् । खिद्यते इति वाक्ये अनट्प्र०
अन । 'खिदेर्जूर- विसूरौ' (४।१३२) खिद्० → जूर० आदेशः । 'लुक्' (१।१०) अलुक् । 'लोकात् ' (१।१।३) जूरन । 'नो णः ' (१।२२८) न० ण० । सप्तमी ङि । 'डे-म्मि ङे:' (३।११) ङि०डे० ए० । 'डित्यन्त्य० ' (२|१|११४) अलुक् । 'लोकात् ' (१|१|३) जूरणे इति
सिद्धम् ।
J
च इति प्रकृतिः । प्रथमा सि । 'क-ग-च-ज० ' (१११७७) च्लुक् । 'अव्ययस्य' (३।२।७) सिलुप् अ ।
उल्लपति । उल्लपतीत्येवंशीलो धर्मो वा साधुर्वा । 'तृन् शील- धर्म - साधुषु' (५२।२७) तृन्प्र० । 'स्वराणां स्वराः ' (४।२३८) ल्ल० ल्ला० । 'अजातेः पुंसः' ( ३।३२) ङीप्र० ई० इति । षष्ठी ङस् । 'टा - ङस् ० ' ( ३।२९) ङस् इ० । 'शीलाद्यर्थस्येरः' (२।१४५) तृन्० इर० । 'पो वः' (१।२३१) पस्य व: । 'लुक्' (१।१०) वस्य अलुक् उल्लाविरीइ । अपि । 'पदादपेर्वा' (१।४१) अलुक् । 'पो वः' (१।२३१) पि० वि० । प्रथमा सि । 'अव्ययस्य' (३२७) सिलुप् वि ।
-
युष्मद् । षष्ठी ङस् । 'तइ-तु- ते० ' ( ३।९९) षष्ठीङस्सहितयुष्मद् मृगाक्षी । 'ऋतोऽत् ' (१।१२६) मृ० म० । 'ह्रस्वः संयोगे' (११८४) गा०ग० । 'क-ग-च-ज० ' (१।१७७) ग्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० य० । 'छोऽक्ष्यादौ' (२।१७) क्षी० छी० । 'आमन्त्र्ये' (२२३२) प्रथमा सि । 'अनादौ ० ' (२८९) द्वित्वं छ्छी० । 'द्वितीय - तुर्ययो० ' (२९०) पूर्वछस्य च: । 'ईदूतोर्हस्व:' ( ३।४२) च्छी० →
च्छि० । 'अन्त्यव्य०' (१।११) स्लुक् मयच्छि ! ।
-
-
→
→
किम् । प्रथमा सि । 'किमः किम्' (३।८०) किम्०
किम्० । 'मोऽनु०' (१।२३) अनुस्वारः किं ।
ज्ञेयम् । 'म्न-ज्ञोर्णः' (२।४२) ज्ञे० णे० । 'क-ग-च-ज० ' (१।१७७) य्लुक् । प्रथमा सि । 'क्लीबे० ' ( ३।२५) सि० म्० । 'मोऽनु०' (१।२३) अनुस्वारः
अं ।
[ किं उल्लावेन्तीए उअ जूरन्तीए .........]
अस्यार्थः वेव्वे इति..... । तया स्त्रिया भणितं तद्वयं न विस्मरामः । तया कथम्भूतया ? उल्लापयन्त्या । पुनः कथम्भूतया ? उत अथवा जूरन्त्या - खेदं कुर्वन्त्या । पुनः किं तु भीतया । पुनः कथम्भूतया ? उद्वटन्त्या - निषेधं कुर्वन्त्या वा इत्यर्थः ।
१. धा० पा० - खिर्दिच् दैन्ये । परितापे इत्यन्ये ।