SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २८२ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । आनन्तर्ये णवरि ॥८॥२॥१८८॥ आनन्तर्ये णवरीति प्रयोक्तव्यम् ॥णवरि अ से रहवइणा ॥ केचित्तु केवलाऽऽनन्तर्ययोर्णवर-णवरीत्येकमेव सूत्रं कुर्वन्ति, तन्मते उभावप्युभयाऽौँ । [आनन्तर्ये णवरि] आनन्तर्य सप्तमी ङि । णवरि प्रथमा सि । [णवरि अ से रहुवइणा] तद् । षष्ठी ङस् । 'वेदं-तदेतदो डसाम्भ्यां से-सिमौ' (३।८१) ङस्सहित-तद् → से० । रघुपति । तृतीया टा । 'ख-घ-थ०' (१।१८७) घु० → हु० । 'पो वः' (१।२३१) प० → व० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'टो णा' (३।२४) टा० → णा० रहुवइणा ॥१८८॥ अलाहि निवारणे ॥ ८।२।१८९ ॥ अलाहीति निवारणे प्रयोक्तव्यम् ॥ अलाहि किं वाइएण लेहेण ॥ [अलाहि निवारणे] अलाहि प्रथमा सि । निवारण सप्तमी ङि । [अलाहि किं वाइएण लेहेण ] वाचितेन । 'क-ग-च-ज०' (१११७७) च-तयोर्लुक् । 'नो णः' (१।२२८) न० → ण० वाइएण । लेखेन । 'ख-घ-थ-ध-भाम्' (१।१८७) खे० → हे० । 'नो णः' (१।२२८) न० → ण० लेहेण । वाचितेन लेखेन किम् ? सहिता व अत्थउ च्चिय, एयारिसिं लिहंता, न हंति पहिया वि एसा उ ॥१॥ ॥१८९।। अण-णाइं नअर्थे ॥ ८।२।१९० ॥ अण-णाई इत्येतौ नञोऽर्थे प्रयोक्तव्यौ ॥ अणचिन्तिअममुणन्ती । णाई करेमि रोसं ॥ [अण-णाई नार्थे ] अण-णाई प्रथमा सि । नञोऽर्थः = नबर्थस्तस्मिन् = नबर्थे । सप्तमी ङि । [अणचिन्तिअममुणन्ती] अचिन्तित = अणचिन्तित । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः अणचिन्तिअं । 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । 'शत्रानशावे.' (५।२।२०) शतृप्र० → अत् इति । 'ज्ञो जाण-मुणौ' (४७) ज्ञा० → मुण० आदेशः । 'शत्रानशः' (३.१८१) अत्० → न्त० । 'प्रत्यये ङीर्नवा' (३।३१) ङीप्र० →ई इति । 'लुक' (१।१०) अलुक् । 'लोकात्' (१।१।३) मुणन्ती । नब्पूर्व० 'अमुणन्ती। १. णवरि अ सो रहुवइणा वारं वारेण चन्द्रहासच्छिण्णो । एक्केण सरेण लुओ एक्कमहो दहमुहस्स मुहसंघाओ ॥ [से० ब० - १५७९] अनन्तरं च सो रघुपतिना वारं वारं चन्द्रहासच्छिनः । एकेन शरेण लून एकमुखो दशमुखस्य मुखसङ्घातः ॥ २. अणचिंतियममुणंती चिंतियकरणेण तस्य मणखेयं । । कायव्वेसु कुणंती न याणिमो कत्थ वच्चिस्सं ॥ [तारागण] ३. M. अजानती।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy