________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२६९
२६९
(२१७९) लुक् । 'ख-घ-थ०' (१।११८७) घस्य हः । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः दीहं ॥१७१।।
त्वादेः सः ॥८२१७२ ॥ 'भावे त्व-तल्' (७।१।५५) इत्यादिना विहितात् त्वादेः परः स्वार्थे स एव त्वादिषु भवति ॥ मृदुकत्वेन → मउअत्तयाइ । आतिशायिकात् त्वातिशायिकः संस्कृतवदेव सिद्धः । जिट्ठयरो । जिट्ठयमो । कणिट्ठयरो ॥ [त्वादेः सः ] त्वादि पञ्चमी ङसि । स प्रथमा सि ।
[मउअत्तयाइ] मृदुकत्व । 'ऋतोऽत्' (१।१२६) मृ० → म० । 'क-ग-च-ज०' (१।१७७) द-कयोर्लुक् । 'सर्वत्र०' (२१७९) व्लुक् । 'अनादौ०' (२२८९) तस्य द्वित्वम् । अनेन तल्प्र० → त इति । स्त्रियां- 'आत्' (२।४।१८) आप्प्र० → आ । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१११८०) आ० → या० । तृतीया टा । 'टा-ङस्डेरदादिदेवा तु ङसे:' (३।२९) टा० → इ० मउअत्तयाइ ।
अतिशयार्थप्रत्ययात् अतिशयार्थप्रत्ययः समेति, यः(सः) संस्कृतसम एव यथा -
[जिट्ठयरो जिट्ठयमो] अतिशयेन प्रौढः = ज्येष्ठः । अतिशयेन ज्येष्ठः = जे(ज्ये)ष्ठतरः, जे(ज्ये)ष्ठतमः । 'अधो मन-याम्' (२।७८) य्लुक् । 'हस्वः संयोगे' (१९८४) जे० → जि० । 'ष्टस्या०' (२।३४) ष्ठस्य ठः । 'अनादौ०' (२२८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० जिट्ठयरो जिट्ठयमो।
[कणिट्ठयरो] अतिशयेन अल्पः = कनिष्ठः । अतिशयेन कनिष्ठः = कनिष्ठतरः । 'नो णः' (१।२२८) नि० → णि० । 'ष्टस्या०' (२।३४) ष्टस्य ठः । शेषं पूर्ववत् । कणिट्ठयरो ॥१७२॥
विद्युत्-पत्र-पीता-ऽन्धालः ॥ ८।२।१७३ ॥ एभ्यः स्वार्थे लो वा भवति ॥ विज्जुला । पत्तलं । पीवलं पीअलं । अन्धलो ॥ पक्षे- विज्जू । पत्तं । पीअं । अन्धो ॥ कथं जमलं ? यमलमिति संस्कृतशब्दाद् भविष्यति ॥ [विद्युत्पत्रपीताऽन्धाल: ] विद्युत्पत्रपीताऽन्ध पञ्चमी ङसि । ल प्रथमा सि ।
[विज्जुला] विद्युत् । 'द्य-य्य-र्यां जः' (२।२४) धु० → जु० । 'अनादौ०' (२।८९) जस्य द्वित्वम् । 'अन्त्य०' (१।११) त्लुक् । अनेन वा लप्रत्ययः । स्त्रियां- 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा सि । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् विज्जुला।
[पत्तलं] पत्र । अनेन वा लप्रत्ययः । “सर्वत्र ल-व०' (२१७९) लुक् । 'अनादौ०' (२१८९) तस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः पत्तलं ।
[पीवलं पीअलं] पीत । अनेन वा लप्रत्ययः । 'पीते वो ले वा' (१२२१३) तस्य वा व० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः पीवलं । द्वितीये-पीत । अनेन वा लप्रत्ययः । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः पीअलं ।
१. H. L. जेट्ठयरो | A. जिट्ठयमो उदाहरणम् ।