________________
२७०
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[अन्धलो] अन्ध । अनेन वा लप्रत्ययः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० अन्धलो ।
पक्षे -
[विज्जू ] विद्युत् । 'द्य-य्य-यां जः' (२।२४) धु० → जु० । 'अनादौ०' (२।८९) जस्य द्वित्वम् । प्रथमा सि । 'अन्त्यव्य०' (१।११) त्लुक् । 'अक्लीबे सौ' (३३१९) दीर्घः । 'अन्त्यव्य०' (१।११) स्लुक् विज्जू ।
[पत्तं] पत्र । 'सर्वत्र ल-व०' (२१७९) लुक् । 'अनादौ०' (२।८९) तस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः पत्तं ।
[पीअं] पीत । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः पीअं।
[अन्धो] अन्ध । प्रथमा सि । 'अतः सेझैः' (३।२) सि० → डो० → ओ० अन्धो । [जमलं] यमल । 'आदेर्यो जः' (१।२४५) यस्य जः । जमलमिति तु संस्कृतसिद्धं ज्ञेयम् ॥१७३।।
गोणादयः ॥ ८।२।१७४ ॥ गोणादयः शब्दा अनुक्तप्रकृति-प्रत्यय-लोपा-ऽऽगम-वर्णविकारा बहुलं निपात्यन्ते ॥
गौः → गोणो - गावी । गावः → गावीओ । बलीवर्दः → बइल्लो । आपः → आऊ । पञ्चपञ्चाशत् → पञ्चावण्णा - पणपण्णा(ना) । त्रिपञ्चाशत् → तेवण्णा । त्रिचत्वारिंशत् → तेआलीआ । व्युत्सर्गः → विउसग्गो । व्युत्सर्जनम् → वोसिरणं । बहिर्मैथुनं वा → बहिद्धा । कार्यम् → णामुक्कसिअं। क्वचित् → कत्थइ । उद्वहति → मुव्वहइ । अपस्मारः → 'वम्हलो । उत्पलम् → कन्दुटुं । धिक् धिक् → छि छि - 'धिद्धी । धिगस्तु → धिरत्थु । प्रतिस्पर्धी(र्धा) → पडिसिद्धी - पाडिसिद्धी । स्थासकः → चच्चिक्कं । निलयः → निहेलणं । मघवान् → मघोणो । साक्षी → सक्खिणो । जन्म → जम्मणं । महान् → महन्तो । भवान् → भवन्तो । आशी: → आसीसा । क्वचित् हस्य ड्ड-भौ - बृहत्तरम् → वड्डयरं । हिमोरः → भिमोरो । लस्य डुः - क्षुल्लक: → खुडओ । घोषाणामग्रेतनो गायनः → घायणो । वड:वढो। ककुदम् → ककुधं । अकाण्डम् → अत्थक्कं । लज्जावती → लज्जालुइणी । कुतूहलम् → कुटुं । चूतः → मायन्दो । माकन्दशब्दः संस्कृतेऽपीत्यन्ये । विष्णुः → भट्टिओ । श्मशानम् → करसी । असुराः → अगया । खेलम् → खेड्डु । पौष्पं रजः → तिगिच्छि । दिनम् → अल्लं । समर्थः → पक्कलो । पण्डकः → णेलच्छो । कर्पासः → पलही । बली → उज्जल्लो। ताम्बूलम् → झसुरं । पुंश्चली → छिछई । शाखा → साहुली इत्यादि ।
वाऽधिकारात् पक्षे यथादर्शनं गउओ इत्याद्यपि भवति ॥ गोला - गोआवरी इति तु गोला - गोदावरीभ्यां सिद्धम् ॥
भाषाशब्दाश्च - आहित्थ । लल्लक्क । विड्डिर । पच्चड्डिअ । उप्पेहड । मडप्फर । पड्डिच्छिर । अट्टमट्ट । विहडप्फड। उज्जल्ल । हल्लप्फल इत्यादयो महाराष्ट्रविदर्भादिदेशप्रसिद्धा लोकतोऽवगन्तव्याः ॥
क्रियाशब्दाश्च - अवयासइ । फुस्फुल्लइ । उप्फालेइ इत्यादयः ॥ अत एव कृष्ट-घृष्ट-वाक्य-विद्वस्-वाचस्पतिविष्टरश्रवस्-प्रचेतस-प्रोक्त-प्रोतादीनां-क्विबादिप्रत्ययान्तानां च अग्निचित्-सोमसुत्-सुग्ल-सुम्लेत्यादीनां पूर्वैः कविभिरप्रयुक्तानां प्रतीतिवैषम्यपरः प्रयोगो न कर्तव्यः, शब्दान्तरैरेव तदर्थोऽभिधेयः । यथा कृष्टः → कुशलः । वाचस्पतिर्गुरुः । विष्टरश्रवाः → हरिरित्यादि । १. पा० म० - वम्हल नपुंसकलिङ्गः । २. I. J. L. धिद्धि ।