________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२६७
'कुत्सिता-ऽल्पा-ऽज्ञाते' (७३।३३) इत्यनेन यः कप्प्रत्ययः समेति स तु कुत्सादिविषये संस्कृतवदेव सिद्धः । तत्र(तः) कुत्सिताद्यर्थमन्यत् सूत्रं नोक्तम् । 'यावादिभ्यः कः' (७।३।१५) इति सूत्रेण यः कप्रत्ययः स यावादिगणाद् भवति इतिकारणात् 'स्वार्थे कश्च वा' (२।१६४) इति सूत्रं कृतम् ॥१६४॥
___ लो नवैकाद्वा ॥ ८।२।१६५ ॥ आभ्यां स्वार्थे संयुक्तो लो वा भवति ।। नवल्लो । एकल्लो | सेवादित्वात् कस्य द्वित्वे एक्कल्लो ॥ पक्षे-नवो । एक्को । एओ ॥ [ल्लो नवैकाद्वा] ल्ल प्रथमा सि । नवश्च एकश्च = नवैकम्, तस्मात् = नवैकात् । पञ्चमी ङसि । वा प्रथमा सि । [नवल्लो] नव । अनेन वा लप्र० । प्रथमा सि । 'अतः सेोः ' (३।२) सि० → डो० → ओ० नवल्लो । [एकल्लो ] एक । अनेन वा लप्र० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० एकल्लले ।
[एक्कलो ] एक । अनेन लप्र० । सेवादौ पठनात् 'सेवादौ वा' (२।९९) कस्य द्वित्वम् । प्रथमा सि । 'अत: सेर्डोः' (३२) सि० → डो० → ओ० एक्लो ।
पक्षे- [नवो] नव । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० नवो । [एक्को] एक। 'सेवादौ वा' (२।९९) कस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३।२) सि० →डो० → ओ० एक्को।
[एओ] एक । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० एओ ॥१६५।।
उपरेः संव्याने ॥८।२।१६६ ॥
संव्यानेऽर्थे वर्तमानादुपरिशब्दात् स्वार्थे लो भवति ॥ अवरिल्लो ॥ संव्यान इति किम् ? अवरि ॥ [उपरेः संव्याने] उपरि पञ्चमी ङसि । संव्यान सप्तमी ङि।
[अवरिल्लो ] उपरि । 'वोपरौ' (१।१०८) उ० → अ० । 'पो वः' (११२३१) पस्य वः । अनेन लप्र० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० अवरिल्लो । प्रावरणमित्यर्थः ।
[अवरिं] उपरि । 'वोपरौ' (१।१०८) उ० → अ० । 'पो वः' (१।२३१) पस्य वः । 'वक्रादावन्तः' (१२२६) अनुस्वारः अवरि ॥१६६।।
भ्रुवो मया डमया ॥ ८।२।१६७ ॥ भ्रूशब्दात् स्वार्थे मया-डमया इत्येतौ प्रत्ययौ भवतः ॥ भुमया । भमया ॥ [भ्रुवो मया डमया ] भ्रू पञ्चमी ङसि । मया प्रथमा सि । डमया प्रथमा सि ।
[भुमया ] धू । 'उधू-हनूमत्-कण्डूय-वातूले' (१।१२१) भ्रू० → ६० । 'सर्वत्र ल-व०' (२७९) लुक् । अनेन मयाप्र० । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् भुमया ।
[भमया] भ्रू । अनेन डमया० → अमया० इति । 'डित्यन्त्यः ' (२२१२११४) ऊलुक् । 'सर्वत्र ल-व०' (२१७९) लुक् । प्रथमा सि । 'अन्त्य०' (१।११) सलुक् भमया ॥१६७॥