________________
अष्टमाध्यायस्य द्वितीयः पादः ।।
[एत्तिअं] एतावत् । अनेन आवत्० → डेत्तिअ० → एत्तिअ० इति - "एत्" लुक् च । 'लोकात्' (१२२३) (१।१।३) एत्तिअ । प्रथमा सि । 'क्लीबे०' (३.२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः एत्तिअं।
[एत्तिलं] एतावत् । अनेन आवत्० → डेत्तिल० → एत्तिल० इति - "एत्" लुक् च । 'लोकात्' (१।१।३) एत्तिल । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (११२३) अनुस्वारः एत्तिलं ।
[एदहं] एतावत् । अनेन आवत्० → डेद्दह० → एद्दह० इति - "एत्" लुक् च । 'लोकात्' (१।१।३) एद्दह । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः एद्दहं ॥१५७॥
कृत्वसो हुत्तं ।। ८।२।१५८ ॥ 'वारे कृत्वस्' (७।२।१०९) इति यः कृत्वस् विहितस्तस्य हुत्तमित्यादेशो भवति । 'सयहुत्तं । सहस्सहुत्तं ॥ कथं प्रियाभिमुखं पियत्तं ? अभिमुखार्थेन हुत्तशब्देन भविष्यति ॥ [कृत्वसो हुत्तं ] कृत्वस् षष्ठी ङस् । हुत्त प्रथमा सि ।
[सयहुत्तं] शत-कृत्वस् । शतवारान् कृत्वा । 'श-षोः सः' (१२२६०) श० → स० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । अनेन कृत्वस्० → हुत्तं० सयहुत्तं ।
[सहस्सहुत्तं] सहस्र - कृत्वस् । सहस्रवारान् कृत्वा । 'सर्वत्र ल-व-रामवन्द्रे' (२७९) लुक् । 'अनादौ०' (२१८९) सस्य द्वित्वम् । अनेन कृत्वस्० → हुत्तं० सहस्सहुत्तं ।
[पियहुत्तं ] प्रियहुत्त । 'सर्वत्र ल-व०' (२७९) लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः पियहुत्तं । हुत्तशब्दोऽभिमुखार्थे ॥१५८॥
आल्विल्लोल्लाल-वन्त-मन्तेत्तेर-मणा मतोः ॥ ८।२।१५९ ॥ आलु इत्यादयो नव आदेशा मतोः स्थाने यथाप्रयोगं भवन्ति ॥
आलु - नेहालू । दयालू । ईसालू । लज्जालुआ ॥ इल्ल-सोहिल्लो । छाइलो । जामइल्लो ॥ उल्ल-विआरुल्लो । मंसुल्लो । दप्पुल्लो ॥ आल-सद्दालो । जडालो । फडालो । रसालो । जोण्हालो ॥ वन्त-धणवन्तो । भत्तिवन्तो ॥ मन्त-हणुमन्तो । सिरिमन्तो । पुण्णमन्तो ॥ इत्त-कव्वइत्तो । माणइत्तो ॥ इर-गव्विरो । रेहिरो ॥ मण-धणमणो ॥
केचिन्मादेशमपीच्छन्ति - हणुमा । मतोरिति किम् ? धणी । अत्थिओ ।
[आल्विल्लोल्लालवन्तमन्तेत्तेरमणाः] आलुश्च इलश्च उल्लश्च आलश्च वन्तश्च मन्तश्च इत्तश्च इरश्च मणश्च = आल्विल्लोल्लालवन्तमन्तेत्तेरमणाः । प्रथमा जस् ।
[मतोः] मतु षष्ठी ङस् । १. चुम्बिज्जइ सअहुत्तं अवलंभिज्जइ सहस्सहुत्तं वि । रमिअ पुणो वि रमिज्जइ पिए जणे णत्थि पुणरुत्तं ॥
[शृ० प्र० - ७१०१ । ध्व० लो० - प्रथमोद्योतः] चुम्ब्यते शतकृत्व आलिङ्ग्यते सहस्रकृत्वोऽपि । रन्त्वा पुनरपि रम्यते प्रिये जने नास्ति पुनरुक्तम् ॥ १. पाठां०- शृ० प्र०- अपवाहिज्जइ = अवरुध्यते । २. सहस्ससअहुत्तं = सहस्रशतकृत्वः ।
लहस्यले सहरूकृत्वोऽपि । इत्वा पुनति समयोति मन