SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५८ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । ___ इदं-किमश्च डेत्तिअ-डेत्तिल-डेदहाः ॥ ८।२।१५७ ॥ इदं-किंभ्यां यत्तदेतद्भ्यश्च परस्य अतोर्डावतोर्वा डित एत्तिअ-एत्तिल- एद्दह इत्यादेशा भवन्ति, एतल्लुक् च ॥ इयत् - एत्ति एत्तिलं एद्दहं । कियत् - केत्तिअंकेत्तिलं केद्दहं । यावत् - जेत्तिअं जेत्तिलं जेद्दहं । तावत् - तेत्तिअं तेत्तिलं तेद्दहं । एतावत् - एत्तिअं एत्तिलं एद्दहं ॥ [इदंकिमश्च'] इदम् च किम् च = इदंकिम्, तस्य = इदंकिमः । षष्ठी ङस् । च प्रथमा सि । [डेत्तिअडेत्तिलडेदहाः ] डेत्तिअश्च डेत्तिलश्च डेद्दहश्च = डेत्तिअडेत्तिलडेद्दहाः । प्रथमा जस् । [एत्तिअं] इयत् । अनेन अत्० → डेत्तिअ० → एत्तिअ० इति । 'डित्यन्त्यस्वरादेः' (२।१।११४) इय्लुक् । प्रथमा सि । 'क्लीबे स्वरान्म् से:' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः एत्तिअं। [एत्तिलं ] इयत् । अनेन अत्० → डेत्तिल० → एत्तिल० इति । 'डित्यन्त्य०' (२।१।११४) इय्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः एत्तिलं । [एद्दहं] इयत् । अनेन अत्० → डेद्दह० → एद्दह० इति । 'डित्यन्त्य०' (२।१।११४) इय्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः एद्दहं । [केत्तिअं] कियत् । अनेन अत्० → डेत्तिअ० → एत्तिअ० इति । 'डित्यन्त्य०' (२।१२११४) इय्लुक् । 'लोकात्' (१११३) केत्तिअ । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः केत्तिअं । [केत्तिलं] कियत् । अनेन अत्० → डेत्तिल० → एत्तिल० इति । 'डित्यन्त्य०' (२।१।११४) इय्लुक् । 'लोकात्' (१।१।३) केत्तिल । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः केत्तिलं । [केद्दहं] कियत् । अनेन अत्० → डेदह० → एद्दह० इति । 'डित्यन्त्य०' (२२१२११४) इय्लुक् । 'लोकात्' (१।१।३) केदह । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः केदहं । [जेत्तिअं] यावत् । 'आदेर्यो जः' (१०२४५) या० → जा० । अनेन आवत्० → डेत्तिअ० → एत्तिअ० इति । 'लोकात्' (१।१।३) जेत्तिअ । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः जेत्तिअं । [जेत्तिलं ] यावत् । 'आदेर्यो जः' (१।२४५) या० → जा० । अनेन आवत्० → डेत्तिल० → एत्तिल० इति । 'लोकात्' (१।१।३) जेत्तिल । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः जेत्तिलं । [जेहं] यावत् । 'आदेर्यो जः' (१।२४५) या० → जा० । अनेन आवत्० → डेदह० → एद्दह० इति । 'लोकात्' (१।१।३) जेद्दह । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः जेद्दहं । [तेत्तिअं] तावत् । अनेन आवत्० → डेत्तिअ० → एत्तिअ० इति । 'लोकात्' (१।१।३) तेत्तिअ । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः तेत्तिअं । [तेत्तिलं] तावत् । अनेन आवत्० → डेत्तिल० → एत्तिल० इति । 'लोकात्' (१२१३) तेत्तिल । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः तेत्तिलं । [तेहहं] तावत् । अनेन आवत् → डेदह० → एद्दह० इति । 'लोकात्' (१।१।३) तेद्दह । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः तेहहं ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy