________________
अष्टमाध्यायस्य द्वितीयः पादः ॥
२५७
[पीणदा] पीनता । 'नो णः' (१।२२८) नस्य णः । 'तो दोनादौ शौरसेन्यामयुक्तस्य' (४।२६०) ता० → दा० । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् पीणदा ॥१५४॥
अनङ्कोठात्तैलस्य डेल्लः ॥ ८।२।१५५ ॥ अङ्कोठवर्जिताच्छब्दात्परस्य तैलप्रत्ययस्य डेल्ल इत्यादेशो भवति ॥ सुरही(हि)-जलेण कडुएल्लं ॥ अनकोठादिति किम् ? अङ्कोल्लतल्लं । [अनङ्कोठात् ] न अङ्कोठः = अनङ्कोठस्तस्मात् = अनङ्कोठात् । [तैलस्य डेल्लः ] तैल षष्ठी ङस् । डेल्ल प्रथमा सि ।
[सुरही( हि)-जलेण कडुएल्लं] 'सुरभी(भि)-जल । 'ख-घ-थ०' (१।१८७) भी०(भि०) → ही०(हि०) । तृतीया टा । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) ल० →ले. सुरही( हि)-जलेण ।
कटुकतैल । 'टो डः' (१।१९५) टस्य ड० । अनेन तैलस्य डेल्ल० → एल्ल० । 'डित्यन्त्य०' (२२१२११४) कमध्याद् अलुक् । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः कडुएल्लं ।
[अङ्कोलतेल्लं] अङ्कोठतैल्ल । 'अङ्कोठे ल:' (१।२००) ठस्य ल्ल । 'ऐत एत्' (१।१४८) तै० → ते० । 'तैलादौ' (२।९८) लस्य द्वित्वम् । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः अङ्कोलतेल्लं ॥१५५।।
यत्तदेतदोऽतोरित्तिअ एतल्लक च ॥८२॥१५६ ॥ एभ्यः परस्य डावादेरतोः परिमाणार्थस्य इत्तिअ इत्यादेशो भवति, एतदो लुक् च ॥ यावत् → जित्तिअं । तावत् → तित्तिअं । एतावत् → इत्तिअं॥ [ यत्तदेतदोऽतोरित्तिः ] यच्च तच्च एतच्च = यत्तदेतत्, तस्मात् = यत्तदेतदः । अतु षष्ठी ङस् । इत्तिअ प्रथमा सि । [एतल्लुक् च ] एतल्लुक् प्रथमा सि । च प्रथमा सि ।
[जित्तिअं] यत् । या संख्यामानमस्य । 'यत्तदेतदो डावादिः' (७१।१४९) डावतुप्र० → आवत् । 'डित्यन्त्य०' (२।१।११४) अन्त्यस्वरादिलोप: । 'आर्यो जः' (१।२४५) या० → जा० । अनेन डावत्० → इत्तिअ० । 'लोकात्' (१।१।३) जित्तिअ । प्रथमा सि । 'क्लीबे०' (३२५) सि० → म्० । 'मोऽनुस्वारः' (१।२३) अनुस्वारः जित्तिअं।
[तित्तिअं] तद् । सा संख्यामानमस्य । 'यत्तदेतदो डावादिः' (७१२१४९) डावतुप्र० → आवत् । 'डित्यन्त्य०' (२।१११४) अन्त्यस्वरादिलोपः । अनेन डावत्० → इत्तिअ० । 'लोकात्' (१।१३) तित्तिअ० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१९२३) अनुस्वारः तित्तिअं।
[इत्तिअं] एतद् । एषा संख्यामानमस्य । 'यत्तदेतदो डावादिः' (७।१।१४९) डावतुप्र० → आवत् । 'डित्यन्त्य०' (२।१।११४) अन्त्यस्वरादिलोपः । अनेन एतावत्० → इत्तिअ० । प्रथमा सि । 'क्लीबे स्वरान्म् से:' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (०२३) अनुस्वारः इत्तिअं।
स्त्रियाम्- आत्' (२।४।१८) आप्प्र० → आ । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् इत्तिआ ॥१५६॥ १. श० महो० - सुरभिशब्दः पुं- नपुं - त्रिलिङ्गः ।