________________
२५२
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[ऊससिरो] 'श्वसक् प्राणने' (१०९०) श्वस, उत्पूर्वम् । उत्श्वसितीत्येवंशीलो धर्मो वा- साधुर्वा = ऊससिरो । 'अनुत्साहो०' (१२११४) उत्० → ऊ० । 'तृन् शील.' (५।२।२७) तृन्प्र० । अनेन तृन्० → इर० । 'लोकात्' (१।११३) ऊश्वसिर । 'सर्वत्र ल-व०' (२९७९) व्लुक् । 'श-षोः सः' (१२२६०) श० → स० । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० ऊससिरो ।
[नमिरो] 'णमं प्रहृत्वे' (३८८) णम् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नम् । नमतीत्येवंशीलो धर्मो वा-साधुर्वा = नमिरो । केचित तनप्रत्ययस्यैव इरमिच्छन्ति, तेषां नमिर-गमिरादयो न जायन्ते । 'सम्यजस-हिंस-दीप-कम्प-कम-नमो रः' (५।२७९) म० → म्र० - अग्रे रप्रत्ययः । चेत् तृन्प्रत्ययस्यैव इरः आदेशो विधीयते तदा तन्मते रादिप्रत्ययस्य इरो न स्यात्, ततस्तन्न युक्तम्, ततोऽनेन र० → इर० । 'लोकात्' (१।१३) नमिर । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० नमिरो ।
[गमिरो] अम (३९२) द्रम (३९३) - हम्म (३९४) - मीमृ (३९५) - 'गम्लुं गतौ' (३९६) गम् । गच्छतीत्येवंशीलो धर्मो वा- साधुर्वा = गमिरो । 'श-कम-गम-हन-वृष-भू-स्थ उकण (५।२।४०) उकण्प्र० । अनेन उकण् → इर० । 'लोकात्' (१।१।३) गमिर । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० गमिरो ॥१४५॥
क्त्वस्तुमत्तूण-तुआणाः ॥ ८।२।१४६ ॥ क्त्वाप्रत्ययस्य तुम्-अत्-तूण-तुआण इत्येते आदेशा भवन्ति ॥ तुम्-दटुं । मोत्तुं ॥ अत्-भमिअ । रमिअ ॥ तूण-घेत्तूण । काऊण || तुआण - भेत्तुआण । सोउआण || वन्दित्तु इत्यनुस्वारलोपात् ॥ वन्दित्ता इति सिद्धसंस्कृतस्यैव वलोपेन ॥ कटु इति तु आर्षे ॥
[क्त्वस्तुमत्तूणतुआणाः ] क्त्वा षष्ठी ङस् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः । तुम् च अच्च तूणश्च तुआणश्च = तुमत्तूणतुआणाः । प्रथमा जस् ।
[दटुं] 'दृशं प्रेक्षणे' (४९५) दृश् । दर्शनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन त्वा० → तुम्।। 'ऋतोऽत्' (१।१२६) दृ०, द० । 'दृशस्तेन दुः' (४।२१३) स(श)कारस्य तकारेण सह ढ० । दट्ठम् इति स्थाने 'मोऽनुस्वारः' (१।२३) अनुस्वारः दर्छ । ' [मोत्तुं] 'मुच्लूंती मोक्षणे' (१३२०) मुच् । मोचनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन त्वा० → तुम्० । 'युवर्णस्य गुणः' (४।२३७) मु० → मो० । 'रुद-भुज-मुचां तोऽन्त्यस्य' (४।२१२) च्० → त्० । 'लोकात्' (१।१।३) मोत्तुम् । 'मोऽनुस्वारः' (१९२३) अनुस्वारः मोत्तुं । ।
[भमिअ] 'भ्रमू चलने' (९७०) भ्रम् । भ्रमणं पूर्वम् । 'प्राक्काले' (१।४।४७) क्त्वाप्र० → त्वा । अनेन त्वाप्रत्ययस्य अत् । 'सर्वत्र ल-व०' (२१७९) भ्रमध्याद् रोपः । 'व्यञ्जनाददन्ते' (४।२३९) अत् - म् अग्रे अ० । 'लोकात्' (१।१४३) भमअत् इति जाते 'एच्च क्त्वा-तुम्०' (३।१५७) इत्यनेन म० → मि० । 'अन्त्य०' (१।११) त्लुक् भमिअ ।
[रमिअ] 'रमि क्रीडायाम्' (९८९) रम् । रमणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन त्वाप्रत्ययस्य अत् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (११११३) रमअत् इति जाते 'एच्च क्त्वा-तुम्०' (३।१५७) इत्यनेन म० → मि० । 'अन्त्य०' (१।११) तलुक् रमिअ ।